________________
द्वितीयो विभागः
चक्षुरादीनां ज्ञानेन्द्रियाणां प्रर्वतकत्वात् मनः ज्ञानेन्द्रियम्, तथा वागादीनां कर्मेन्द्रियाणां प्रवर्तकत्वात् मनः कर्मेन्द्रियमपीति तत्तात्पर्यम्। मनसः कार्यमस्ति संकल्पो विकल्पश्च। किमपि वस्तु अवलम्ब्य इदमेवम् नैवं वेति यो विकल्पः समुत्पद्यते स एव मनसः कार्यम्। मनस इन्द्रियत्वञ्च साधर्म्यात् सिद्धयति। साधर्म्यञ्चास्येन्द्रियैः सह गृह्यते। यथा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च सात्विकात् अहंकारात् उत्पद्यन्ते तथैव मनोऽपि सात्विकादेवाहंकारदुत्पद्यते, इति मनस इन्द्रियत्वमपि सिद्ध्यति । अत्र साधर्म्यञ्च मनसः इन्द्रियैः सह समानकारणजन्यत्वरूपमिति वेदनीयम्। सांख्यदर्शने अन्त:करणस्य त्रयो भेदाः स्वीकृता- मनो बुद्धिः अहंकारश्च। एषां लक्षणान्येव एषां व्यापारः। यथा- संकल्पविकल्पात्मकं मनः। किञ्चिद् वस्तु दृष्ट्वा- इदमेवं नैवं वेति तर्कणैव मनसः कार्यम्। मनसा विकल्पितेऽर्थे बुद्धिः निश्चयात्मकं ज्ञानं कारयति। इदन्तु इदमेव नान्यदिति निश्चयात्मकं ज्ञानं बुद्धिरित्युच्यते । प्रत्येकं कर्मणि अहमहमिति बुद्धिः अहमेवं करोमि करिष्यामि वेत्याकाराबुद्धिरेवाहङ्कारः। मनसः स्वरूपे कारणे कार्ये स्थानादिविषये दार्शनिकानां मतभेदोऽस्ति । न्यायवैशेषिकदर्शने मनः परमाणुरूपं कारणरहितमत एव नित्यमिति स्वीकृतमास्ते। सांख्ययोगदर्शने वेदान्ते च मनोऽणुरूपं सात्विकादहंकारात् उत्पनं स्वीकृतमस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org