________________
भिक्षुन्यायकर्णिका येनेन्द्रियेण सुखदुःखादीनामनुभूतिर्भवति तदेवेन्द्रियं मन इत्युच्यते। मनसा जायमानस्य ज्ञानस्यायं क्रमः - आत्मा मनसा युज्यते, मनः इन्द्रियेण युज्यते, इन्द्रियमर्थेन युज्यते ततो ज्ञानम् । इदमत्रावधेयं यत् यावत् आत्मना संयुक्तस्य मनसो योगः इन्द्रियेण न भवति तावत् किमपि ज्ञानं भवितुं नाहतीति। आत्मसंयुक्तं मनो यदा तत्तदिन्द्रियैः सह युज्यते तदा इन्द्रियाणि स्वकीयं स्वकीयं नियतं विषयं गृह्णन्ति।। मनः अणुपरिमाणं वर्तते । अणुपरिमाणं मनः एकस्मिन् काले अनेकैरिन्द्रियैः सह न युज्यते । अत एकस्मिन् काले नोत्पद्यन्तेऽनेकानि ज्ञानानि । अत एव न्यायसूत्रे उक्तम्"युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ प्राणादीनामिन्द्रियाणां गन्धादीनां विषयाणाञ्च युगपत् संयोगे सत्यपि नोत्पद्यन्ते युगपत् अनेकानि ज्ञानानि तेनानुमीयते यत् अस्ति तत्तदीन्द्रियसंयोगि किमपि अन्यत् निमित्तं यस्यासन्निधिवशात् नोत्पद्यते युगपदनेकं ज्ञानम्। परिणामत इदमेव वक्तुं शक्यते यत् येनेन्द्रियेण सह आत्मसंयुक्तमनसः संयोगो भवति तस्मिन् काले तदिन्द्रियनियतविषया एव गृह्यन्ते । अतो युगपत् ज्ञानानुत्पत्तिर्यत् मनसो लक्षणं व्यलेखि तत् साधु एव।
सांख्यदर्शनेतु मनस उभयात्मकत्वं स्वीकृतमस्ति । उभयात्मकत्वमित्यस्यार्थः ज्ञानेन्द्रियत्वं कर्मेन्द्रियत्वञ्च। 1. न्याय दर्शने 16 सूत्रम् 2. उभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधम्यत् ि। सांस्थकारिका 26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org