________________
द्वितीयो विभाग:
पौद्गलिकं मन एव द्रव्यं मन इत्यप्युच्यते । लब्धि: उपयोगश्च आत्मिकं मनो भावमनो वेत्युच्यते ।
आचार्यो हेमचन्द्रस्तु पञ्चेन्द्रियवत् मनसोऽपि द्रव्यं मनो भावमनश्चेति द्वैविध्यं मनुते तथा मनस्त्वेन परिणतानि पुद्गल द्रव्याणि द्रव्यं मनः । भावमनस्तु आवरणीयकर्मक्षयोपशमः आत्मनश्च अर्थग्रहणोन्मुखो व्यापारविशेष इति स्वीकुरुते । मनसो लक्षणं प्रत्येकं दर्शने कृतं वर्तते । आचार्यस्तुलसी स्वकीये मनोनुशासनम् नामके पुस्तके मनसो लक्षणमेवं करोति "इन्द्रियसापेक्षं सर्वार्थग्राहि त्रैकालिकं संज्ञानं मनः अस्मिन् लक्षणे भिक्षुन्यायकर्णिकायां कृतात् लक्षणात् केवलमिदमेव पार्थक्यं यत् अत्र इन्द्रियसापेक्षम् इति एकं पदं तथा संज्ञानमिति पदं च लक्षणे निवेशितं वर्तते । अनेन लक्षणेन तथ्यत्रयं स्फुटितं भवति
27
५१
१. इन्द्रियद्वारागृहीते विषये मनः प्रवर्तते । तस्मात् मनः इन्द्रियसापेक्षमस्ति ।
२. मनः शब्दस्पर्शादीन् सर्वान् विषयान् जानाति अत: मनः सर्वार्थग्राहि अस्ति ।
३.
मनः भूतभविष्यवर्तमानेतिकालत्रयस्य विषयान् जानाति अत: त्रैकालिकं मनः इत्यप्युच्यते ।
अत्र मनसः इन्द्रियत्वं न स्वीकृतम् ।
न्यायदर्शने तु मनः इन्द्रियमस्तीति स्पष्टमुल्लिरिवतम् । यथा "सुखाद्युपलब्धिसाधनमिन्द्रियं मनः " ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org