________________
भिक्षुन्यायकर्णिका युक्ति: अर्थपरीक्षणोपायो वा। यत्र किमपि वस्तु परीक्ष्यते तत्र तद्वस्तु साध्यं भवति, तथा येन साधनेन तत् परीक्ष्यते तत् साधनं कथ्यते। यदि साधनं साध्यस्य विरोधि भवति तदा तत् साध्यं साधयितुं न शक्नोति यथा शब्दो नित्यः कार्यत्वात् । अत्र कार्यत्वेन हेतुना शब्दे नित्यत्वं साध्यते। तच्च साधनं कार्यत्वं नित्यत्वस्य विरोधि अस्ति। अतः कार्यत्वेन हेतुना नित्यत्वं साधयितुं न शक्यते। अत उक्तं मूले साध्यसाधनयोरविरोध एव युक्तिः। एतादृश्या युक्त्या अर्थपरीक्षणं कार्यम् । परीक्षितोऽर्थएवप्रवृत्युपयोगी। साध्यसाधनयोः प्रयोगस्यानुमितिस्थल एव प्रसिद्धत्वात् युक्तिप्रथमलक्षणेऽरुचिं निधाय लिखति अर्थपरीक्षणोपायो वा युक्तिः । अर्थस्य परीक्षणं येनोपायेन भवति सोऽप्युपायो युक्तिपदेनाभिधीयते। येन केनापि प्रकारेणार्थस्य परीक्षणं कृत्वैव तत्र प्रवर्तितव्यमिति अत्रत्यं तात्पर्यम् । तत्र न्यायपदार्थः क इति जिज्ञासायायुच्यते - नीयते प्राप्यते अर्थस्य पदार्थस्य सिद्धिप्तिर्येन स न्यायः। न्यायशास्त्रमेव वस्तुनो याथार्थ्यं प्रस्तौति । तत एव तत्र प्रवृत्तिः साधीयसी भवतीति अत्रत्यं हार्दम्। प्रमाणं प्रमेयं प्रमितिः प्रमाता चेति चतुरङ्गः । प्रमाणं - साधनम्। प्रमेयम् - वस्तु। प्रमितिः - फलम्। प्रमाता – परीक्षकः।
-
2.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org