________________
१९२
भिक्षुन्यायकर्णिका
वायु गाय आदि की तरह किसी की प्रेरणा के बिना ही अनियमित रूप से इधर-उधर घूमती है, अतः वह सजीव है । वनस्पति का छेदन करने से वह मुरझा जाती है, अतः वह सजीव है ।
न्या. प्र. - अस्यायंभाव :- दृश्यते लोके मनुष्याणां शरीरे तिरश्चां च शरीरे जायते कदाचित् व्रण: (घाव) । स च व्रणः तत्र जातेन सजातीयेन मांसांकुरेण भरितो भवति । तथैव पृथिव्यां खननेन यो गर्ती ( गड्ढा) भवति स गर्तोऽपि तत्रोत्पन्नेन पृथिव्याः सजातीयांकुरेण भरित: पूर्णतामुपैति । एतेन सिद्धं भवति यत् यथा मनुष्याः सजीवाः, यथा वा तिर्यञ्चः सजीवास्तथैव पृथिवी अपि सजीवा ।
मनुष्यास्तथा तिर्यञ्चश्च गर्भावस्थायाः प्रारम्भत एव तरला: स्पन्दनशीला भवन्ति । इदं तेषां तरलत्वं शस्त्रानुपहततरलत्वं न तु शस्त्रोपहततरलत्वम् । मनुष्याणां तिरश्चाञ्चेदं स्वाभाविकं द्रवत्वं यथा तत्र वर्तते तथैव जलेऽपि स्वाभाविकं तरलत्वमवतिष्ठते । इदं तरलत्वं केनापि विरोधिवस्तुना उपहते न भवति चेत् तावत् जलमपि सजीवं तत्त्वमिति वेदितव्यम् । सजीवा: पदार्था आहारपानादिभिरुपचिता:- वृद्धिं गता दृश्यन्ते लोके । अनेनैव प्रकारेण इन्धानाद्याहारैरग्निरपि दृश्यते वृद्धिं गतः । अस्यां स्थितौ शक्यते वक्तुमिदं यद् यत् तत्त्वमाहाराद्युपायै बर्द्धमानं भवति तत् उत्त्वं सजीवमेव मनुष्यादिवत् । प्रकारेणानेनाग्नेरपि सजीवत्वसिद्धिः सुकरैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org