________________
सप्तमो विभागः
१९३ यथा पृथिव्याः सजीवत्वं यथा वा अग्निजलयोः सजीवत्वं तथैव वायोरपि सजीवत्वमपह्नोतुमशक्यमेव । कारणञ्चेदं यत् यथा दृश्यते लोके सजीवो गौः पर प्रेरणां विनैव अनियमितरूपेण इतस्तत: पर्यटन दृष्टिगोचरो भवति, तथैव वायुरपि कस्यापि प्रेरणां विनैव अनियमितरूपेण गमनवान् भवति। जडपदार्थः (चेतनाहीनः) चेतनस्य प्रेरणां विना किमपि कर्तुं नालम् । किन्तु सजीवपदार्थस्तु नापेक्षते गतागतं कर्तुं कस्यापि प्रेरणामित्यनया युक्त्या वायोः सजीवत्वं सुतरां सिद्धयति। एवमेव वृक्षा वनस्पतयोऽपि सजीवा एवेति वेदितव्यम् । यदा वृक्षस्य शाखा छिद्यते तदा वृक्षोऽपि म्लानो भवति। एवमेव वनस्पतयोऽपि म्लायन्ते छेदनेन कर्तनेन वा। अयं तेषां मलिनीभावस्तेषां सजीवत्वं साधयति । चेतनाहीनः कोऽपि पदार्थश्छेदनभेदनतामुपेत्य कदापि न याति म्लानतां, किन्तु वृक्षा वनस्पतयश्च यान्त्येव म्लानतामिति तेषां सजीवत्वं निर्विवादमेव। जीवानां वैविध्यं प्रमाणप्रतिपन्नम्। तत्र त्रसस्थावरोऽपि एको विभागो जीवानाम् । तत्र स्थावराणां पृथिव्यादीनां सजीवत्वं संसाध्य सम्प्रति त्रसप्राणिनां सजीवत्वं प्रतिपादयन् सूत्रयति
12. त्रसानां च प्रत्यक्षसिद्धमेव।
त्रस प्राणियों का जीवत्व प्रत्यक्ष सिद्ध ही है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org