________________
सप्तमो विभागः
.
१८३
3. न तजडलक्षणभूतधर्मः।
वह चैतन्य जड़प्रकृति वाले भूतों (पृथ्वी, अप, तेजस्, वायु और आकाश) का धर्म नहीं है। न्या. प्र.- तत् चैतन्यं जडलक्षणस्य जडस्वरूपस्य भूतस्य धर्मो नास्ति। पृथिव्यादीनि पञ्चभूतानि जड़स्वरूपाणि । तत्र नास्ति चैतन्यम् । कस्यापि वस्तुनः समुत्पत्तौ तदीयमुपादानमपेक्षितं भवति। यथा कनककुण्डलोत्पत्तौ तदीयमुपादानं स्वर्णं भवत्युपयोगि। यथा वा मृद्घटोत्पत्तौ मृदेवोपादानं भवति । उपादानमन्तरा कार्योत्पत्तिरसंभवेति तत्त्वविदामाकूतम् । गीतायामप्युक्तम्-"नासतो विद्यते भावो नाभावो विद्यते सतः" अर्थात्- भावः स्थितिः सत्ता वा असद्वस्तुनो नैव भवति। नैव भवति कदाचिदपि बन्ध्यासुतस्य सत्ता । नैव वा कदाचिदपि लब्धसत्ताकं जातम् आकाशकुसुमम्। उपादानमन्तरा नैव भवितुमर्हति कस्यापि वस्तुनः समुत्पादः। पृथिव्यादिभूतेषु नास्त्येव चैतन्यं चेत् कथं समुत्पद्येत पुरुषे चैतन्यम् । तस्मान्न चैतन्यं भूतधर्मः। चैतन्यमस्ति आसीत् भविष्यति चेति चैतन्यं शाश्वतिकं लब्धसत्ताकं वस्तु। न भवति तदीयोऽभाव: कदाचिदपि। अतः उक्तम्-नाभावो विद्यते सतः।
यदि उच्यते मा भवतु प्रत्येकं भूते चैतन्यं किन्तु यदा पञ्चापि भूतानि समुदितानि भवन्ति तदा, समुदितेषु भूतेषु चैतन्यमुत्पद्यते। किन्तु एतदपि कथनं न मनोरमम् यतोहि यदि प्रत्येकं भूते नास्ति चैतन्यं तदा समुदितेष्वपि भूतेषु कथमुत्पद्यतां चैतन्यम् ? यदि एकस्मिन्नपि तिले नास्ति तैलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org