________________
२४४
भिक्षुन्यायकर्णिका
साध्यः वक्तृत्वञ्च हेतुः। उपलखण्डः उदाहरणमस्ति। अत्र दृष्टान्ते उपलखण्डे पाषाणे साध्याभावः वीतरागत्वम् साधनाभावः वक्तृत्वाभावश्चेत्युभयं वर्तते तथापि नह्यत्र भवति एवं व्याप्तिर्यत् - यत्र यत्र वीतरागत्वं तत्र तत्र वक्तृत्वाभावः इति रूपात्मिका। तस्मात् अव्यतिरेकदृष्टान्ताभासोऽयम्। अप्रदर्शितव्यतिरेक:- यत्र व्यतिरेकव्याप्तिः संभवापि न प्रदर्शिता स्यात् तत्र अप्रदर्शितव्यतिरेकनामको दृष्टान्ताभासः। यथा - अनित्यः शब्दः कृतकत्वात् आकाशवत् यत् अनित्यं न भवति तत् कृतकमपि न भवति, अर्थात् यत्र यत्र अनित्यत्वाभावः तत्र तत्र कृतकत्वाभावः इत्येवं रूपेण व्यतिरेकव्याप्तिर्वर्तते तथाप्यत्र सा स्ववचनेन न प्रदर्शितेति अप्रदर्शितव्यतिरेकनामा दृष्टान्ताभासोऽत्रबोध्यः। नयाभासा: -- सम्प्रति नयाभासान् वक्तुमिच्छन् पूर्व द्रव्यार्थिक: पर्यायार्थिकश्चेति नयद्वयं विज्ञाय तयोराभासं
प्रस्तुवन् पूर्वं द्रव्यार्थिकाभासं प्रस्तौति - द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः। पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः । धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः, यथानैयायिकवैशेषिकदर्शनम्। सत्ताद्वैतं स्वीकुर्वाण: सकलविशेषान्निराचक्षाणः संग्रहाभासः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org