________________
तृतीयो विभाग:
५९
लक्षणमपि' दृश्यते न्यायदर्शने। तच्चेत्थम्- संस्कारमात्रजन्यं ज्ञानं स्मृतिः। अस्मिन् लक्षणे यदि मात्रपदं न स्यात् तदा इदं लक्षणं प्रत्यभिज्ञामपि व्याप्नुयात् । प्रत्यभिज्ञाऽपि संस्कारजन्या भवति। मात्रपदनिवेशे तु न दोषः प्रत्यभिज्ञाया संस्कारमात्रजन्यत्वाभावत्। संस्कारजन्यप्रत्यभिज्ञायां, सोऽयं घट: इत्यत्र अयमिति पदेन तस्या इन्द्रियजन्यत्वमपि विदितं भवति । प्रत्यभिज्ञायामतीतं वर्तमानं चेत्युभयमपि भासते। स्मृतौ तु केवलमतीतमेवेति तयोर्भेदः। सा च स्मृतिः प्रमाणमस्ति न वेति विषये मतवैभिन्न्यं वर्तते। जैनदर्शने तु स्मृतेः प्रामाण्यं स्वीकृतमेवास्ते । यथा अविसंवादि प्रत्यक्षादि ज्ञानं प्रमाणं भवति तथैव अविसंवादि ज्ञानरूपा स्मृतिरपि प्रमाणमस्त्येवेति तदीयं तात्पर्यम्।
मीमांसादर्शने तु स्मृतेः प्रामाण्यं नैव स्वीकृतम्। अस्येदं कारणं यत् स्मृत्या न कश्चन नवीनो विषयो ज्ञायते अपितु गृहीतविषय एव ग्राह्यते । अतो गृहीतग्राहितया स्मृतेः प्रामाण्यं नैव शक्यते वक्तुम् । तदुक्तम्- स्मृतेरप्रमाणत्वं गृहीतग्राहितया मतम्।
कुमारिलभट्टादयो विद्वांसः कथयन्ति यत् स्मृतिद्वारा स एव विषयः समुपस्थाप्यते यो विषयोऽनुभवद्वारा ज्ञातोऽस्ति । न खलु कश्चन अज्ञातो विषयो ज्ञाप्यते स्मृत्या। तस्मादप्रमाणमेवेयम्।
1. तर्क संग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org