________________
५८
भिक्षुन्यायकर्णिका
इदमेव चिह्नं यत् तत्र तत् शब्दस्य प्रयोग: स्वभावतो भवत्येव। यथा-केनचित् पुरुषेण पूर्वं दृष्टो नीलगिरिः, दृष्टं वा किमपि राजभवनम्। कालान्तरे नीलगिरिसदृशं पर्वतान्तरं राजभवनसदृशमन्यद् वा राजभवनं पश्यति तदासौ वक्ति सः नीलगिरिः इतितद्राजभवनमिति वा । अत्र सदृशं वस्तु दृष्ट्वा प्रतियोगिनो यद् स्मरणं तदेव स्मृतिरिति स्पष्टम्। एतदेव तथ्यं वादिदेवसूरिणा-प्रमाणनयतत्त्वालोके एवं व्यलेखि-संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम्। स्मरणमेव स्मृतिः। तच्च संस्कारप्रबोधात् जायते । संस्कारश्च वासनापरपर्यायः कस्यचिद्ज्ञानस्य दृढ़ीभावरूपः। सदृश पदार्थदर्शनमहिम्ना संस्कारः प्रत्युद्बुद्धः सन् स्मृति (स्मरणं) जनयति। अनया रीत्या अनुभूतार्थ एव स्मृतिविषयो भवति। तच्छब्दोल्लेखस्तु स्मृतेः परिचायकोऽस्ति। स्मृतौ कश्चन नवीनो विषयो न भासते, किन्तु अनुभूतविषय एवात्र भासते। अत एव न्यायदर्शने ज्ञातविषयं ज्ञानं स्मृतिरिति तल्लक्षणमुपलभ्यते। एतेन स्पष्टं भवति यद् स्मृतेः विषयः पूर्वत एव ज्ञातो भवति। स्मृति: कमपि नवीनं विषयं नोत्थापयति किन्तु पूर्वतो ज्ञातो विषयो यः खलु अस्माकं संस्कारे तिरोहितस्तिष्ठति स एव संस्कारोबोधे सति अस्माकं ज्ञाने प्रकाशितो भवति । संस्कारात् स्मृतेरुत्पत्तिरिति सिद्धान्तमुररीकृत्य स्मृतेरपरं
1. तर्कभाषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org