________________
Eo
भिक्षुन्यायकर्णिका न्यायदर्शने तु गृहीतग्राहितया नाप्रामाण्यं स्मृतेः किन्तु स्मृतिः कञ्चिदर्थमवलम्ब नोत्पद्यतेऽतोऽनर्थजन्यत्वमेव स्मृतेरप्रमाणत्वस्य कारणम् । तदुक्तम्न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम्। अपि त्वनर्थजन्यत्वं तदप्रमाण्यकारणम् ॥ न्यायमञ्जरी
एवं रीत्या विभिन्नदर्शने स्मृतेः प्रामाण्ये निराकृतेऽपि जैनदर्शने तस्याः प्रामाण्यं स्वीकृतमेव। स्वयं निहितं (स्थापितं) वस्तु कुत्र निहितमिति स्मृत्या विचिन्त्य उपलभ्यत एवेति वस्तुज्ञापकत्वात् तस्याः प्रामाण्यं सुरक्षितमेव। न च स्मृतिः निरालम्बनेति शंकनीयम् । अनुभूयमानविषयद्वारा तस्याः सालम्बनत्वस्यैव सत्वात् । यदि अनुभूतेनार्थेन स्मृते: सालम्बनत्वेऽपि अप्रामाण्यमित्युच्यते तदा प्रत्यक्षस्यापि अनुभूतार्थविषयत्वात् अप्रामाण्यं स्यात्। सम्प्रति मतिज्ञानस्य द्वितीयभेदं प्रत्यभिज्ञानं लक्षयतिअनुभवस्मृतिसंभवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगी' त्यादि संकलनं प्रत्यभिज्ञा। यथा-सैवेयं वलभी यत्र देवर्धिगणिना आगमवाचना कृता, गोसदृशो गवयः, गोविलक्षणो महिषः।
इदमस्माद् दूरम्, इदमस्मान्नेदीयः । क्वचिद् व्यस्ताभ्यामपि। 1. यन्निरूपणाधीनं निरूपणं यस्य तत् तत्प्रतियोगी। 2. एकत्वसादृश्यवैसादृश्यादिनाऽर्थद्वयघटनम् संकलनम्। 3. केवलेनाऽनुभवेन केवलेन स्मरणेनाऽपि प्रत्यभिज्ञा जायते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org