________________
परिशिष्ट
२१५ साधयति। अत्र पुस्तकाभावः साध्योऽस्ति। उपलब्धिः ज्ञानं, तस्याभावोऽनुपलब्धिरज्ञानं अर्थात् ज्ञानविषयत्वाभावः। स च ज्ञानविषयत्वाभावः पुस्तकस्य, दृश्यानुपलब्धेरिति हेतुना साध्यते। यतो
दृश्यानुपलब्धिस्तत एव पुस्तकाभावः। (ख) व्यापकानुपलब्धि:- नास्त्यत्र प्रदेशे पनसः,
पादपानुप-लब्धेः अत्र पनसत्वं निषेधितव्यमस्ति। तद् व्यापकमस्ति पादपत्वम् । तस्यानुपलब्धिरिति व्यापकानुपलब्धिः। व्यापकाभावे व्याप्याभाव:
सुतराम्। (ग) कार्यानुपलब्धि:- कारणाभावे कार्याभावः सुतराम्।
नास्त्यत्राप्रतिहतशक्तिकं बीजम् अङ्करानवलोकनात् । अत्र प्रतिषेध्यम् अप्रतिहतशक्तिकं बीजं, तत्कार्यम् अङ्करं तस्य अनुपलब्धिरिति कार्यानुपलब्धिः स्पष्टा ।
सशक्तिकबीजाभावे अङ्कराभावः निश्चित एवास्ते। (घ) कारणानुपलब्धि:- न सन्त्यस्य प्रशमप्रभृतयो भावाः
तत्त्वार्थश्रद्धानाभावात्। अत्र प्रतिषेध्यं प्रशमप्रभृतयोभावाः प्रशमसंवेग निर्वेदानुकम्पाऽऽस्तिक्यस्वरूपात्मपरिणामविशेषाः, तत् कारणमस्ति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्यानुपलब्धिरिति कारणानुपलब्धिः। एवमेव नास्त्यत्र धूमो वन्यभावादित्यपि उदाहरणं भवितुर्महति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org