________________
२३
सम्पर्कात् ज्ञानं जनयन्ति इन्द्रियाणि । तत्र च मनसः साहचर्यमप्यपेक्षितं भवति । अतएवोच्यते इन्द्रियमनोनिमित्तं सांव्यवहारिकं प्रत्यक्षमिति ।
द्वितीयो विभाग:
इन्द्रियमनोनिरपेक्षेणात्मना जायमानं सर्वज्ञानप्रधानं मुख्यं केवल ज्ञानात्मकं प्रत्यक्षमिति प्रसिद्धं जैनसमये ।
यद्ज्ञानमक्षेभ्यः इन्द्रियेभ्यः तथा अक्षात् आत्मनो वा परतो भवति तत् परोक्षमित्युच्यते । यथा— अनुमित्यात्मकं ज्ञानमविनाभाविना लिङ्गेन भवति । उपमित्यात्मकं ज्ञानं तु सादृश्येन जायते । शाब्दज्ञानं च शब्दद्वारा भवति । नात्रेन्द्रियाणामन्यस्य कस्यापि साधनस्य वा अपेक्षा भवतीति एषां परोक्षत्वं स्पष्टमेव ।
यथार्थज्ञानमेवप्रमाणमित्युक्तं प्राक् । तत्र यथार्थत्वावच्छिन्ना यावन्त: सन्ति ज्ञानप्रकारास्तावन्त एव प्रमाणस्य भेदा अपि भवन्ति, तथापि प्राधान्येन प्रमाणस्योपर्युक्तौ द्वा एव भेदौ प्रथितौ ।
यद्यपि स्वरूपावबोधकत्वेन सर्वमेवज्ञानं प्रत्यक्षमेवेति वक्तुं शक्यते तथापि बाह्यार्थपरिच्छेदापेक्षया ज्ञानस्य प्रत्यक्षता परोक्षता च भवतीति विज्ञेयम् । अत्र स्वरूपावबोधशब्देन ज्ञानस्य स्वप्रकाशकत्वं बोध्यम् ।
अत्रायं विशेष: - प्रत्यक्षशब्दस्य व्युत्पत्तौ अक्षशब्दस्यार्थः इन्द्रियमिति मन्यन्ते वैदिका बौद्धाश्च । अक्षशब्दार्थः आत्मा इति न स्वीकृतमत्र | अतः वैदिकपरम्परायां बौद्धपरम्परायाञ्च इन्द्रियाश्रितमेव ज्ञानं प्रत्यक्षमिति फलितं भवति । इदमिन्द्रियाश्रितं ज्ञानं प्रत्यक्षम् ईश्वरीयज्ञाने उपचरितमिति मन्तव्यम् ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org