________________
षष्ठो विभागः
१६१
विशेषं विना। अनेन प्रकारेण यत् सामान्यं तदेव विशेषोऽपि इति तथ्यं सिद्धं भवति। ___ अत्र दर्शने वस्तुव्यवस्था स्वद्रव्यक्षेत्रकालभावापेक्षया भवति। यद् वस्तु-स्वद्रव्यक्षेत्रकालभावापेक्षया वाच्यं भवति तदेव वस्तु परद्रव्यक्षेत्रकालभावापेक्षया अवाच्यं भवति । अनया रीत्या प्रथमसूत्रे निबद्धं वस्तु स्वरूपं सिद्ध्यतीति न संशयः।
___ अस्यां स्थितौ सत्ता सामान्यमेव स्वीकुर्वाणा अद्वैतवादिनः तथा प्रतिक्षणं परिवर्तनमुपेयिवांसो विशेषा एव तत्त्वमिति वदन्तो बौद्धास्तथा सामान्यं पृथक् तत्त्वं विशेषश्च पृथक् तत्त्वमिति ब्रुवाणा नैयायिकाश्च निराकृता एव वेदनीयाः। नहि गौरित्युक्ते सामान्यमेव प्रतीयते, विशेष एव वा प्रतीति पथमायाति किन्तु यथा सास्नालांगूलककुखुरविषाणा द्यवयवसम्पन्नं वस्तुरूपं सामान्यं सर्वव्यक्त्यनुयायि प्रतीयते तथैव महिष्यादिव्यावृत्तिरपि विशेषरूपा प्रतीयत एव। नहि सामान्यं विहाय विशेषः कुत्रचिदुपलभ्यते, विशेषं विहाय सामान्यं वा। तदेवं वस्तुनः सामान्यविशेषात्मकत्वस्य सिद्धत्वेऽपि उभयैकान्तवादः स्वतन्त्रवादश्च निराकृत एव ।
अत्र विचार्यते यदिदं निराकरणं युक्तमयुक्तं वेति। यः खलु अद्वैतसिद्धान्तः स तु परमार्थतत्त्वे साक्षात्कृते एव वक्तुं युक्तः। आपादमस्तकं संसारकर्दमे निमग्नोऽकृतपारमार्थिक तत्त्वसाक्षात्कारोऽद्वैतवादस्य गीतं गायन् उपहासास्पद एव। प्रातिभासिकव्यावहारिकपारमार्थिकसत्तेति सत्तात्रयं स्वीकुर्वाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org