________________
भिक्षुन्यायकर्णिका व्यवहारजगति जीवन्तो जपतपोऽनुष्ठानादिप्रक्रियां सम्पाद्य प्रतिभासं निराकृत्य यदा पथिकायन्ते परमार्थपदस्य तदैव ते सत्ताद्वैतवादिनो न तु अयं वादः कृते तेषां सार्वकालिकः।
नैयायिक मते सामान्यं पृथक् पदार्थः विशेषश्च पृथक पदार्थः इति यत् स्वीकृतं तदपि साधु एव । नित्यमेकमनेकानुगतं सामान्यमिति परिभाषितं सामान्य तत्तद्जात्यवच्छिन्नान् सर्वान् सदैव बोधयति। यथा मनुष्य इत्युक्ते सति सर्वेषां मनुष्याणां सहैव बोधो जायते। यदि तत्रोच्यते-कृष्णवर्णोऽयं मनुष्यः, गौरवर्णों वा तदा विशेषमनुष्यस्य बोधो भवति। विशेषणविशिष्ट एव विशेषः । तस्मात् मनुष्योऽयं घटोऽयं पटोऽयं वेति सर्वे व्यवहाराः सामान्यमादायैव जायन्ते। यदा चोच्यते पीतघटोऽयं, रक्तघटोऽयमिति तदा विशेषघट स्य बोधः। अयं सामान्यविशेषभावस्तु न्यायदर्शने स्वीकृत एव। ____ यश्च वर्तते पारिभाषिको विशेषः स तु अन्त्यो नित्यद्रव्यपरमाणुवृत्तिः तथा अनन्त एव । स तु केवलं परमाणूनां भेदको भवतीति सर्वथा नवीनोऽयं विशेषः। यश्च लोके ख्यातिं गतः सामान्यविशेषभावः सोऽपि न्यायदर्शने स्वीकृत एवास्ते। अस्यां स्थितौ केवलं क्षणे क्षणे परिवर्तनवादिनः विशेषपदार्थं स्वीकुर्वाणा बौद्धा एव निराकर्तुमुपयुक्ता येषां नये विशेषातिरिक्तं नास्ति किमपीति। प्रमाणस्य विषयः सदसदाद्यात्मकं वस्तु इति प्रतिपाद्य सतः स्वरूपं किमिति वक्तुमुपक्रमते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org