________________
१६०
भिक्षुन्यायकर्णिका अस्यायंभाव:-जैनदर्शनमनेकान्तवादि दर्शनमस्ति। प्रत्येकं वस्तुनि अनेके धर्मास्तिष्ठन्तीति जैनदर्शनस्य मौलिक: सिद्धान्तः। यद्यपि वस्तुनि अनेके धर्मा अन्यदर्शनेष्वपि स्वीकृताः सन्ति किन्तु सत्त्वासत्त्वनित्यत्वानित्यत्वादयः परस्परं विरोधिनो धर्मा एकस्मिन्नेवाधिकरणे अविरोधभावेन तिष्ठन्तीति के वलं जैनदर्शन एव स्वीकृतमस्ति । अनेकान्तवादिसिद्धान्तानुसारं यत् सत् तदेवासदपि यन्नित्यं तदनित्यमपि। एवं कथमिति चेदवधार्यतां यत्- प्रत्येकं वस्तुनि अंशद्वयं भवति द्रव्यांशः पर्यायांशश्च । द्रव्यांशमादाय वस्तुनो नित्यत्वं, तथा पर्यायांशमादाय वस्तुनोऽनित्यत्वम्। पर्यायांशे उत्पादव्ययौ भवतः, किन्तु द्रव्यांशस्तु उभयान्वयि अविकृतं तिष्ठति। अत एवोच्यते उत्पादव्ययध्रौव्यात्मकं सदिति। अनया रीत्या एकस्यैव वस्तुनः सदसन्नित्यानित्यत्वं सिद्ध्यति। नित्यानित्यत्ववत् प्रत्येकं वस्तु सामान्यविशेषात्मकमप्यस्ति। यत् सामान्यं तदेव विशेषोऽपि। सामान्यविशेषयोरविनाभाव सम्बन्धः। विशेषाणां समूह एव सामान्यं, विशेषश्च सामान्यस्यैको घटकोऽवयवो वा। उक्तञ्च
निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना। निम्बाम्रवटादीनां समूह एव वृक्षत्वम् सामान्यम्। एतद् वृक्षत्वव्याप्यो घटको वा निम्बोऽयम् वटोऽयम् आम्रो वायमिति व्यवहारः। व्यवहारोऽयं वेदयति यत् विशेषो नावतिष्ठते सामान्यं विना । एवं सामान्यमपि न भवितुमर्हति लब्धसत्ताकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org