________________
चतुर्थो विभागः
कारण द्रव्यश्रुत है और वह अर्थज्ञानात्मक भावश्रुत का साधन बनता है। न्या. प्र.- आप्तवचनात् जातं श्रुतज्ञानम् आगम इति कथ्यते। यथा-नास्त्यात्मा इति वदन्ति जड़वादिनः । तद्विपरीतं वदति आसः अस्ति आत्मा। अस्मादाप्तो क्तवचनात् आत्मनोऽस्तित्वविषयकं यद् ज्ञानं जायते तदपि श्रुतज्ञानम् आगम इति कथ्यते। जलार्थिनः पुरुषस्य पुरो यदि आप्त पुरुषः कथयति यत् अत्र मधुरं जलमस्तीति तदा आप्तपुरुषस्य प्रामाण्यात् तस्य जलोपलब्धिर्भवत्येव। उपरि आप्तवचनात् जातस्य ज्ञानस्य (श्रुतरूपस्य) नाम आगम इति कथितम्, किन्तु आसवचनमेवागम इति प्रसिद्धिरप्यस्तीति विरोधः स्पष्ट एवेति शंकां निराकुर्वन् कथयति यत् आप्तवचने यः खलु आगम शब्दस्य प्रयोगः कृतः स तु औपचारिकोऽस्ति। अर्थात् आप्तवचनाद् जायमाने श्रुतज्ञाने यद् आगमत्वं वर्तते तत् तदीये कारणे आप्तवचने समारोप्य आप्तवचनमपि आगम शब्देनोच्यते। तच्च श्रुतज्ञानं द्विविधं भवति-द्रव्यश्रुतं भावश्रुतञ्च। तत्र वर्णपदवाक्यात्मकं वचनं पौद्गलिकं भवति। पौद्गलिकत्वाच्चेदं द्रव्यश्रुतम्। इदं द्रव्यश्रुतमेव अर्थज्ञानात्मकस्य भावश्रुतस्य साधनं भवति । अनया रीत्या श्रुतज्ञानस्य द्वैविध्यं साधूपपादितं भवति। उपरि आप्तस्य प्रसंगः समायातः। तत्र कः खलु आप्तः इति प्रतिपादयितुं सूत्रमुपस्थापयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org