SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विभागः १२५ स्यादवक्तव्यो घट:-अयं भङ्गस्तस्यामवस्थायां निष्पद्यते यदा सहैव कामना भवति अस्तित्वनास्तित्वयोः प्राधान्यस्य। किन्तु विरोधिधर्मद्वयं सहैव प्राधान्यं यायादिति तु वक्तुमप्यशक्यमिति भवति अवक्तव्यो घट इति। प्रथमद्वितीयतृतीयभङ्गैः सह योजयित्वा इमं भङ्गमन्ये त्रयो भङ्गा निष्पद्यन्ते। तद्यथास्यादस्तिचावक्त व्यश्च घट :-अस्मिन् भङ्ग सत्तासहितस्य अवक्तव्यत्वस्य प्राधान्यं भवति । अमुकवस्तुनः सत्ता अस्ति किन्तु सा अवक्तव्यास्ति इति रीत्या सत्ताया अवक्तव्यत्वस्य च प्राधान्यं प्रतीयत एवास्मिन् भङ्गे। स्यान्नास्ति चावक्तव्यश्च घट:-अत्र नास्तित्वसहितस्य अवक्त व्यत्वस्य प्राधान्यम्। अमुक वस्तु नो नास्तित्वमस्ति, किन्तु अवक्तव्यं तदिति भङ्गस्यास्य स्वरूपं सुस्थिरं भवति। स्यादस्ति नास्ति चावक्तव्यश्च घट:-अस्मिन् भने सत्ताया असत्ताया अवक्तव्यत्वस्य च प्राधान्यं वर्तते । वस्तु कयाचिदपेक्षया अस्ति कयाचिदपेक्षया च नास्ति इदं तथ्यम् अवक्तव्यमस्ति। अनया रीत्या त्रयाणामपि प्राधान्यमतिरोहितमिति अस्यापि भङ्गस्य औचित्यं सुरक्षितं तिष्ठति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy