SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२४ भिक्षुन्यायकर्णिका यदा अस्तित्वनास्तित्वयोः विधिनिषेधयोः क्रमशः प्राधान्यं काम्यते तदा स्यादस्तिनास्ति घटः इति भङ्गो भवति । यदा विधिकल्पनया सह युगपत् विधिनिषेधयोः (अवक्तव्यत्वस्य) प्राधान्यं काम्यते तदा स्यादस्ति चावक्तव्यश्च घट: इति भङ्गो निष्पद्यते। यदा च निषेधस्य प्राधान्यकामनया सह युगपत् विधिनिषेधयोः (अवक्तव्यत्वस्य) प्राधान्यं वाञ्छितं भवति तदा स्यान्नास्ति चावक्तव्यश्चेति भङ्गः भवति। एवमेव क्रमशो विधिनिषेधप्राधान्यकामनया सह युगपत् विधिनिषेधयोः प्राधान्यकामना यदा भवति तदा स्यादस्ति नास्ति चावक्तव्यश्चेति भङ्गः सम्पद्यते। उपर्युक्त विवेचनेन सप्तानां भङ्गानां क्रमः एवं निष्पद्यते स्यादस्ति घट:-अत्रास्तित्वस्य प्राधान्यं नास्तित्वस्य चाप्राधान्यम्। स्यान्नास्ति घट:-अत्र नास्तित्वस्य प्राधान्यं तथा अस्तित्वस्याप्राधान्यं भवतीति बोध्यम्। स्यादस्ति नास्ति च घट:-क्रमार्पितोऽयं भङ्गः। अस्मिन् भङ्गे क्रमशः सत्वम् प्रधानं तथा असत्वं च प्रधानं भवति । कयाचिदपेक्षया घटस्यास्तित्वं तथा कयाचिदपेक्षया घट स्यनास्तित्वञ्च प्रधानतामुपयातीति क्रमार्पितोऽयं पक्षो भवति साधीयान्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy