________________
चतुर्थो विभागः
१२३
स्यात् अवक्तव्य एव। सबको मिलाने से सप्तभगी होती है। न्या. प्र.- स्याद्वादस्य मुख्यतस्त्रयो भङ्गा भवन्ति । यथा१. स्यादस्त्येव, २. स्यान्नास्त्येव, ३. स्यादवक्तव्य एव अत्र स्यात् शब्दोऽनेकान्तवाचकोऽस्ति। अयं कथयति यत् प्रत्येकं वस्तुनि अनेके धर्माः सन्ति । तत्र स्वद्रव्यक्षेत्रकालभावापेक्षया प्रत्येकं वस्तु नोऽस्तित्वं सर्वत्रैव वर्तते । परद्रव्यक्षेत्रकालभावापेक्षया तत्र नास्तित्वमपि वर्तते। यत्र स्यादस्त्येव घटः इत्युच्यते तत्र सर्वत्र अस्तित्वं प्रधानं भवति। नास्तित्वञ्चाप्रधानं भवति। एवमेव यदा स्यान्नास्त्येव घट: इत्युच्यते तत्र नास्तित्वमेव प्राधान्यं भजते, अस्तित्वञ्च तत्र गौणतामुपयाति। यदा उभयोः सहार्पितत्वं काम्यते अर्थात् उभयोः प्राधान्यं सहैव स्यादिति काम्यते, तदा उभयोः सहैव प्राधान्यमसंभवमिति मत्वा तत्र अवक्तव्यत्वं भवति। अत एव तत्र प्रोच्यते स्यादवक्तव्य एव घटः । इमे त्रय एव भङ्गाः सन्ति मुख्याः। वस्तुनः प्रत्येकं धर्मेण सह इमे त्रयो योजनीयाः सन्ति। यथोपर्युक्तोदाहरणे अस्तिना सह योजिता इमे त्रयो भङ्गाः। एवमेव नास्तित्वलघुत्वमहत्वादिभिः सह एते त्रयो भङ्गाः योजनीयाः। एषां त्रयाणां भङ्गानां संयोगेन निष्पन्नाश्चत्वारोऽन्येऽपि भङ्गा भवन्ति । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org