________________
परिशिष्ट
२४४७
अथवा वस्तु भेदाभेदात्मकं भवति। उभयोस्तात्पर्यमेकमेव। अभेदः सामान्यं द्रव्यं धर्मी वा कथ्यते । भेदस्तु विशेष: पर्यायो धर्मो वा उच्यते। सामान्यविशेषयोर्नास्ति सर्वथा भेदः यतोहि विशेषरहितं सामान्यं न भवति । विशेषोऽपि सामान्यर हि तो नावतिष्ठ ते। अनयोर्निरूपणं प्राधान्याप्राधान्यदृष्ट्या भवति। तत्र पर्यायं निराकृत्य द्रव्यमात्रग्राही द्रव्यार्थिकनयाभासः। द्रव्यं निराकृत्य पर्यायमात्रग्राही पर्यायार्थिकनयाभासो भवति। एतत् सर्वमुपरि निर्दिष्टम्। अनयोः द्रव्यपर्याययोः सर्वथा पार्थक्यं नास्ति, किन्तु धर्मद्वयादीनामेकान्तभिन्नता यदि स्वीक्रियते तदा नैगमाभासो भवति । यथा आत्मनि सत्वं चैतन्यं च परस्परमत्यन्तं भिन्नमिति यदि कथ्यते अथवा द्रव्यं वस्तु च अत्यन्तं भिन्नं वर्तते इति स्वीक्रियते चेत् तत्र नैगमाभास इति बोध्यम्। न्यायवैशेषिकदर्शनयोः सामान्यं विशेषश्चात्यन्तं भिन्नाविति स्वीकृतमस्ति। तस्मात् तत्र नैगमाभास एव। संग्रहाभासः - विश्वस्मिन् जगति एकैव सत्ता पारमार्थिकीति सत्ताद्वैतं स्वीकुर्वत् अद्वैतवादिदर्शनम् सकल विशेषान् निराचष्टे । अद्वैतवादिनो हि सत्तातिरिक्तं वस्त्वन्तरं न स्वीकुर्वन्ति। अनेन प्रकारेण सत्ताद्वैतं स्वीकुर्वद् सकलविशेषांश्च निराकुर्वद् अद्वैतवादिदर्शनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org