________________
२४८
ङः
च.
छ.
भिक्षुन्यायकर्णिका
संग्रहाभासपदेन उच्यते । भिक्षुन्यायकर्णिकायां संग्रहाभासः अनेन प्रकारेण प्रस्तुतीकृतो यत् सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाण: संग्रहाभासः । अस्मिन् संग्रहाभासे सांख्यदर्शनं तथा अद्वैतवाददर्शनानि च समायान्ति ।
व्यवहाराभासः यः पुनः द्रव्यपर्यायमपारमार्थिकं मनुते स व्यवहाराभासः ।
―
योऽभिप्रायविशेषो द्रव्यपर्यायविभागं पारमार्थिकं न मनुते किन्तु तं काल्पनिकं मन्यते स व्यवहाराभासः । अस्मिन् आभासे चार्वाकदर्शनमायाति । चार्वाको हि वस्तुनो द्रव्यपर्यायात्मकत्वं न मनुते किन्तु भूतचतुष्टयात्मकं घटपटादिकमेव पारमार्थिकं मन्यते ।
वर्तमानपर्यायाभ्युपगन्ता सर्वथा
ऋजुसूत्राभासः द्रव्यापलापी ऋजुसूत्राभासः ।
यः वर्तमानपर्यायानेव स्वीकरोति द्रव्यञ्च सर्वथा अपलपति सोऽभिप्रायविशेषः ऋजुसूत्राभासः । अस्मिन् क्रमे तथागतमतमायाति । बौद्धो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकान् मन्यते । प्रत्यभिज्ञादिप्रमाणसिद्धं सोऽयं घट इत्येवं रूपेण पर्यायाश्रयीभूतं द्रव्यं तिरस्करोति । तस्मादत्र ऋजुसूत्राभासः । शब्दाभासः - कालादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः। यथा वैयाकरणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org