SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १९६ भिक्षुन्यायकर्णिका समीचीनो नयः तस्य कलाभिः मनोहराभिः कल्लोलमालाभिः तरंगपरम्पराभिः आकुलः परिव्याप्तोऽयं पारावारः । अनेन विशेषणेन स्याद्वादे समुद्रसाधर्म्य व्यक्तं भवति। एवमेव संवि-ज्ञानमेवात्र रत् तस्य समुच्चयेन आधिक्येन भरितः पूर्णस्तथा समीचीनतर्क एवात्र फेनस्तेन आवृतो युक्तः स्याद्वादपाथोनिधिः कस्य मोदाय आनन्दाय न भवति? अर्थात् सर्वान् जनान् आनन्दयति। महिमामंडितस्याद्वादरूपी समुद्रः स्यादस्ति स्यात् नास्ति इत्यादि सात प्रकार के वचन रूपी जल से भरा हुआ है। अनन्त धर्मात्मक वस्तु के अंश का ग्रहण करने वाले नय ही यहां तरंग हैं। यह समुद्र ज्ञान रूपी रत्नों से भरा हुआ है। समीचीन तर्क ही यहां फेन स्थानापन्न है। इस प्रकार का स्याद्वाद पाथोनिधि सबको आनन्द देता है। यस्यागाधजलाश्रयैर्जलदतां संयान्ति सन्तो जना, विष्वग् विभ्रमधर्मघृष्टवपुषां संशोष्य तृष्णां नृणाम्। वाक्सन्दर्भसरित्प्रवाहनिकरैः संवर्धयन्त्येव यत्, सोऽयं कस्य मुदे न सान्द्रमहिमा स्याद्वादपाथोनिधिः॥ यस्य स्याद्वादपारावारस्यागाधजलैर्लक्षणया अगाधज्ञानैः सन्तोऽपि महात्मानोऽपि जलदतां वारिवाहतां लक्षणया ज्ञानाधारतां प्राप्नुवन्ति । यथा मेघा वर्षणद्वारा सूर्यप्रभावपरिक्लान्तं लोकं तृष्णाशमनपूर्वकं तोषयन्ति, तथैव सन्तोऽपि विष्वक्=परितो विभ्रमो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy