________________
२३४
ङ
भिक्षुन्यायकर्णिका
तस्मात् अव्यभिचारिलिङ्गादर्शनात् रागविषयक : सन्देहो युक्त एवेति संदिग्धसाध्योऽयं दृष्टान्ताभासः । संदिग्धसाधनः - यत्र दृष्टान्ते साधनधर्म: संदिग्धः स्यात् स संदिग्धसाधननामको दृष्टान्ताभासः । यथा विविक्षितोऽयं पुमान् मरणधर्मा रागात् रथ्यापुरुषवत् अत्र दृष्टान्ते रथ्यापुरुषे साधनस्य रागस्य धर्मः रागवत्वं संदिग्धं वर्तते परचेतोविकारस्याप्रत्यक्षत्वात् । तस्मात् संदिग्धसाधनोऽयं दृष्टान्ताभासः ।
च
संदिग्धोभयः - यत्र दृष्टान्ते साध्यधर्मः साधनधर्मश्चेत्युभयं संदिग्धं स्यात् स संदिग्धोभयो दृष्टान्ताभासः । यथा 'विविक्षितः पुमान् अल्पज्ञः रागात् रथ्यापुरुषवत्' अत्र रथ्यापुरुषे अल्पज्ञत्वं रागश्चेत्युभयम् अपि संदिग्धं वर्तते उभयस्यापि प्रत्यक्षतोऽदर्शनात् । तस्मात् संदिग्धोभयोऽयं दृष्टान्ताभासः । परकीयाशयस्य दुर्बोधत्वात् रथ्यापुरुषे रागाल्पज्ञत्वयोः सत्वं संदिग्धम् । छ विपरीतान्वयः यत्र अन्वयो विपरीतो भवेत् स विपरीतान्वयः दृष्टान्ताभासः । यथा अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकम् घटवत् इति विपरीतान्वयः ।
-
Jain Education International
इदमत्रबोध्यम् - प्रसिद्धमुद्दिश्य अप्रसिद्धं विधीयते । यथा अनित्यः शब्दः कृतकत्वात् इत्यनुमाने कृतकत्वं हेतुरिति प्रसिद्धम् । अनित्यत्वं तु अप्रसिद्धं
-
―
For Private & Personal Use Only
www.jainelibrary.org