________________
परिशिष्ट
२३५
साध्यत्वेन निर्दिष्टम्। अनुवादे तु यत् इति सर्वनाम्ना तु प्रसिद्धस्य हेतोरेव निर्देशो युक्तः। अप्रसिद्धस्य साध्यस्य तु तत् शब्देन निर्देशः करणीयः। अतोऽत्र यत् कृतकं तदनित्यमित्येववक्तव्यमुचितम् किन्तु तथा न कृत्वा यदनित्यं तत् कृतकम् इत्युक्तं वर्तते । तच्च न युक्तमिति विपरीतान्वयोऽत्र बोध्यः। सम्प्रति व्यतिरेकिदृष्टान्ताभासान् वक्तुमुपक्रमते । यथा अन्वयेन दृष्टान्ताभासा भवन्ति तथैव व्यतिरेकेणापि भवन्ति । तेषां संख्यापि अन्वयिदृष्टान्ताभासवत् ससैव।
क्रमशस्तान् उदाहरति - 6. व्यतिरेकिदृष्टान्ताभासः(क) असिद्धसाध्यः-अपौरुषेयः शब्दः अमूर्तत्वात्,
यदपौरुषेयं न भवति तदमूर्तमपि न भवति, यथा परमाणुः। परमाणुर पौरुषेयोऽपि मूर्त: इति
असिद्धसाध्यत्वम्। (ख) असिद्धसाधन :- यदपौरुषेयं न भवति तदमूर्तमपि
न भवति, यथा दुःखम्। दु:खं पौरुषेयमपि अमूर्तम् " इति असिद्धसाधनत्वम्।। (ग) असिद्धोभयः-- यदपौरुषेयं न भवति तदमूर्तमपि न
भवति, यथा आकाशः । आकाशः अपौरुषेयोऽपि
अमूर्तोऽपि इति असिद्धोभयत्वम्।। (घ) संदिग्धसाध्यः- यो रागी न भवति स वक्ताऽपि न
भवति, रथ्यापुरुषवत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org