SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २३६ भिक्षुन्यायकर्णिका (ङ) संदिग्धसाधनः- यो मरणधर्मा न भवति स रागी अपि न भवति, रथ्यापुरुषवत्। (च) संदिग्धोभयः-- यः अल्पज्ञो न भवति स रागी अपि न भवति, रथ्यापुरुषवत् । एषु परचेतोवृत्तेर्दुर्लक्ष्यत्वाद् व्यतिरेकिणि रथ्यापुरुषे रागाल्पज्ञत्वयोरसत्त्वं संदिग्धम्। (छ) विपरीतव्यतिरेक:- अनित्यः शब्दः कृतकत्वात् । यदकृतकं तन्नित्यं यथा आकाश: इति विपरीतव्यतिरेकः। व्यतिरेके हि साध्याभावः साधनाभावेन व्याप्तो निर्देष्टव्यः । न चात्रैवमिति विपरीतव्यतिरेकत्वम्। अनन्वयः, अप्रदर्शितान्वयः, अव्यतिरेक :, अप्रदर्शितव्यतिरेकश्चेति चत्वारोऽपरेऽपि दृष्टांन्ताभासा भवन्ति, यथाअनन्वयः- विवक्षितः पुमान् रागी, वक्तृत्वाद्, इष्टपुरुषवदित्यनन्वयः। यद्यपि इष्टपुरुषे रागो वक्तृत्वञ्च साध्यसाधनधर्मी दृष्टौ, तथापि यो वक्ता स रागीति व्याप्त्यसिद्धरनन्वयत्वम्। 2. अनित्यः शब्दः, कृतकत्वाद् घटवद्, इति अप्रद र्शितान्वयः। सन्नपि अन्वयो वचनेन न प्रकाशित इति परार्थानुमानस्य वचनदोषः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy