________________
परिशिष्ट
२३३
ग
अपौरुषेयत्वं नास्ति। तस्मात् साध्यधर्मेण अपौरुषेयत्वेन विकलत्वादयं साध्यधर्मविकलो दृष्टान्ताभासः। साधनविकल:- तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवत् इति दृष्टान्तः साधनविकलो भविष्यति। यथा- "अपौरुषेयः शब्दः अमूर्तत्वात् परमाणुवत्" अत्र परमाणौ दृष्टान्ते साध्यधर्मोऽपौरुषत्वमस्ति किन्तु परमाणूनां मूर्तत्वेन तत्र साधनधर्मोऽमूर्तत्वं नास्ति। तस्मात् साधनविकलोऽयं दृष्टान्ताभासः। उभयविकल:- तस्मिन्नेव पक्षे तस्मिन्नेव हेतौ यदि घटवत् इति दृष्टान्तो दीयते तदा उभयविकलोऽयं दृष्टान्ताभासो भविष्यति । यथा - अपौरुषेयः शब्दः अमूर्तत्वात् घटवत् अत्र दृष्टान्ते घटे साध्यधर्मोऽपौरुषेयत्वम्, साधनधर्मश्च अमूर्तत्वमित्युभयमपि नास्तीति उभयविकलोऽयं दृष्टान्ताभासः । संदिग्धसाध्यः - यत्र दृष्टान्ते साध्यधर्मः संदिग्धः स्यात् स संदिग्धसाध्यो दृष्टान्ताभासः। यथा - विवक्षितः पुमान् रागी वक्तृत्वात् वचनाद् वा रथ्यापुरुषवत् । अत्र रथ्यापुरुषे देवदत्ते साध्यधर्मो रागः संदिग्धो वर्तते । अस्मिन् रथ्यापुरुषे रागोऽस्ति न वा? तत्र न दृश्यते किमपि रागस्याव्यभिचारिलिङ्गम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org