SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २५१ उत्पादव्ययध्रौव्यात्मकं सदिति सतो लक्षणं तन्मते प्रसिद्धम्। इदमेव तथ्यमुदाहरणद्वारा उपर्युक्तश्लोकद्वयेन प्रस्तौति - आसीत् राजपुत्र्याः समीपे स्वर्णघटः। राजपुत्रः तं घटं त्रोटयित्वा तस्य मुकुटं व्यरचयत् । नष्टे घटे पुत्र्याः शोकः समजायत । मुकुटनिष्पत्त्या पुत्रो मोदमविन्दत् । राजा तु उभयोरवस्थयोसध्यस्थ्यमबीभजत् । यतो हि स खलु स्वार्थी एवासीत् । न खलु तदीयं प्रयोजनं घटेन, न वा मुकुटेन। यः पयोव्रती भवति स दधि न अत्ति-खादति । एवं दधिव्रती दना व्रतं कुर्वन् पुरुषो न पिबति पयः। यः खलु अगोरस:गोरसं न खादति स तु न पयः पिबति न वा दधि अत्ति। एतेन ज्ञायते यत् वस्तु त्रयात्मकमर्थात् उत्पादव्ययध्रौव्यात्मकं भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy