________________
षष्ठो विभागः
१६५
3.
तदितरदसत्। यन्नोपपद्यते न व्येति न च ध्रुवं तदसत्, यथा-आकाशकुसुमम्। जिसमें सत् के लक्षण प्राप्त नहीं हैं, वह असत् है।
जो न उत्पन्न होता, न नष्ट होता है और न ध्रवु है, वह असत् है जैसे- आकाशकुसुम। न्या. प्र.- सतोभिन्नं यत् तत् असदिति विज्ञेयम् । यन्नोत्पद्यते अर्थात् यस्योत्पत्तिर्न भवति न च तत्र व्यय एव वा भवति, न च ध्रौव्यं स्थैर्य वा तत्रावलोक्यते तदसदिति विज्ञेयम् । यथा आकाशकुसुमम्। आकाशकुसुमस्योत्पादस्ततो व्ययो वा न दृष्टः श्रुतो वा केनापि कदापि। उत्पादव्यययोरभावे ध्रुवत्वस्य तत्र परिकल्पना मुधैव। अस्यां स्थितौ आकाशकुसुमस्य असत्वं निश्चितमेवेति वेदितव्यम्।
लब्धसत्ताकं प्रत्येकं वस्तु नित्यानित्यात्मकमिति वदति जैनदर्शनम्। तत्र किं स्वरूपं नित्यमिति ज्ञापयति सूत्रद्वारा
4.
सतोऽप्रच्युतिर्नित्यम्। सत् की अप्रच्युति को नित्य कहा जाता है। न्या. प्र.- सतः सद्वस्तुनः अप्रच्युतिरेव तस्य नित्यत्वम्। सद्वस्तु न च्यवते स्वरूपात् मनागपि। तत्तु यथा स्वरूपं सदैवावतिष्ठते । तस्मात्तन्नित्यमिति वदन्ति तत्त्वविदः। नित्यस्य विपरीतं भवति अनित्यम्। तस्य स्वरूपं किमिति प्रतिपादयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org