________________
१६४
भिक्षुन्यायकर्णिका शब्दा एकार्थका एव सन्ति । सदेव वस्तु, वस्तु एव वा सत् इति निश्चेतव्यम्। किमिदं सत् इति जिज्ञासायामिदमवधारणीयं यत् 'अस्ति' इति सत् । यस्यास्तित्वं जगति स्यात् तदेव सत्। सद्वस्तुनि उत्तरोत्तराकाराणामुत्पत्ति:-उत्पादो भवति। उत्पादेन सहपूर्वाकाराणां विनाशोऽपि जायते । एतद् पर्यायद्वये मूलतत्त्वस्यान्वयो भवत्येव । इदमेव मूलतत्त्वमेवध्रौव्यं सत्उच्यते। उदाहरणार्थमेको मृत्पिण्डो गृह्यताम् । अस्माद् मृपिण्डात् कंचिदंशमादाय स्थाली निर्मीयते चेत् स्थाल्या: उत्पादः तथा मृत्पिण्डस्यांशविशेषस्य व्ययोऽपिजात: अस्मिन् उत्पादे व्यये चोभयत्र मृत्तिकाया अन्वयो वर्तते एव । एवञ्चोत्पादव्यययोः सत्वेऽपि यस्य पदार्थस्य मौलिकं स्वरूप सुरक्षितं तिष्ठेत् तदेव वस्तु इति सदिति वा प्रोच्यताम् । एवञ्च उत्पादव्ययध्रौव्यञ्च कथञ्चित् भिन्नम् कथञ्चिच्चाभिन्नमिति वेदितव्यम् । पर्यायदृष्ट्या एषु भिन्नता तथा ध्रौव्यदृष्ट्या अभिन्नता च वेदनीया। कथितमप्येतद् अनेन प्रकारेणदुग्धमेकं सदात्मकं वस्तु। तत एव कञ्चिदंशमादाय दधि निर्मीयते । तत्र दुग्धमेव दधिभावेनोत्पन्न तथा तावान् दुग्धांशो नष्टः। उत्पन्ने दध्नि, तथा विनाशमुपगते दुग्धे च गोरसत्वं सुस्थिरमेवावतिष्ठते। एतेन स्पष्टं यत् वस्तु त्रयात्मकं भवति। एवं जानन् कोऽपि जनः स्याद्वादस्य प्रतिपक्षी कथं भवितुमर्हति? सत्तत्त्वं प्रतिपाद्य इदानीं तद्विपरीतम् असत् तत्त्वं प्रतिपादयितुं सूत्रमवतारयति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org