SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भिक्षुन्यायकर्णिका 13. पूर्वोत्तरचरयो: कारणकार्ययोश्च क्रमभावः । पूर्वोत्तरचरयोः, यथा-रविवारसोमवारयोः । कारणकार्ययोः, यथा-अग्निधूमयोः। पूर्वचर और उत्तरचर तथा कारण और कार्य में क्रमभाव होता है। पूर्वचर और उत्तरचर का क्रमभाव, जैसे- रविवार के पश्चात् सोमवार आता है। कारण और कार्य का क्रमभाव, जैसे- अग्नि कारण है, धूम उसका कार्य है। न्या. प्र.- चरति वर्तत इति चरः पूर्वं चरति इति पूर्वचर:, उत्तरं चरति इति उत्तर चरः। अत्र चरतिर्गमनार्थको विद्यमानार्थको वेति बोध्यम् । अत्र पूर्वोत्तरचर यो: रविवारसोमवारयोः क्रमभावोऽस्ति । पूर्वं रविवासरः उत्तरञ्च सोमवासरः। अत: पूर्वभाविना रविवासरेणाद्य सोमवासर इति ज्ञायते । एवमेव यथा पूर्वचरः उत्तरचरं बोधयति तथैव उत्तरचरोऽपि पूर्वचरं बोधयति । यथा ह्यः रविवासरः अद्य सोमवासरात् । अत्रोत्तरचरेण सोमवासरेण ह्यः रविवासरो बोधितः। एवमेव कारणकार्ययोरपि क्रमभावो भवति। अग्निधूमस्थले अग्निः कारणमस्ति, धूमश्च कार्यमस्ति । कारणं पूर्वं भवति, कार्यनियतपूर्ववृत्तित्वात् कारणस्य । कार्यञ्च पश्चात् भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy