SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ भिक्षुन्यायकर्णिका भवन्ति। एषु चतुर्षु ज्ञानेषु इन्द्रियस्य मनसश्चापेक्षा भवति। किञ्च ज्ञानमिदम् आत्मनो व्यवहितं भवति। प्रकारेणानेन निश्चयदृष्टया ज्ञानमेतत् परोक्षमेवेति वक्तुं शक्यते तथापि स्पष्टत्वात् व्यवहारे प्रत्यक्षमेव कथ्यते तत्। इन्द्रियमनसोः सहयोगेन जायमानमिदं ज्ञानम् आत्मनो व्यवहितमिति आत्मपरोक्षपदेनापि अभिलप्यते इदं तथापि इन्द्रियमनोभ्यामव्यवहितत्वेन हेतुना अस्य ज्ञानस्य इन्द्रियप्रत्यक्षं मानसप्रत्यक्षं वेति संज्ञापि क्रियते। अनेन प्रकारेण इदं प्रत्यक्षं सांव्यवहारिकप्रत्यक्षम्, अस्मदादिप्रत्यक्षं तथा इन्द्रियमनः प्रत्यक्षज्ञानपदेनापि कथ्यते। एतत् सांव्यवहारिकं प्रत्यक्षम् अवग्रहेहावायधारणात्मक भेदभिन्नं चतुष्प्रकारकं भवति । तत्रावग्रहं लक्षयन् सूत्रयति 8. इन्द्रियार्थयोगे दर्शनानन्तरं सामान्यग्रहणमवग्रहः । इन्द्रियार्थयोरुचितदेशाद्यवस्थानरूपे योगे सति दर्शनम्अनुल्लिखितविशेषस्य सन्मात्रस्य प्रतिपत्तिः, तदनन्तरम् अनिर्देश्य सामान्यस्य (वस्तुनः) ग्रहणमवग्रहः । दर्शनानन्तरम् इति क्रमप्रतिपादनार्थम्। एतेन दर्शनस्यावग्रहं प्रति परिणामिता ज्ञेया। इन्द्रिय और पदार्थ का योग होने पर दर्शन के पश्चात् जो सामान्य का ग्रहण होता है, उसे अवग्रह कहते हैं। . __इन्द्रिय और अर्थ का उचित देश आदि में अवस्थानात्मक योग होने पर दर्शन अर्थात् विशेष के उल्लेख से रहित सत्तामात्र का ग्रहण होता है। उसके पश्चात् जिसका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy