________________
द्वितीयो विभागः
निर्देशन किया जा सके वैसा वस्तु का सामान्य अवबोध होता है, वही अवग्रह है।
दर्शन के पश्चात् अवग्रह का निरूपण क्रम-प्रतिपादन के लिए है। इससे जाना जाता है कि दर्शन ही अवग्रह रूप में परिणत होता है। न्या. प्र.- इदमत्रावधेयं यत् प्रत्येकं वस्तु सामान्य विशेषात्मकं भवति । यथा 'घटः' इत्युक्ते सति सर्वेषां घटानां रक्तपीतादीनां बोधो जायत इति इदं सामान्यरूपेण वस्तुनो ग्रहणम्। समेषां घटानां सहैव बोधे तत्र वर्तमानं घटत्वरूपं सामान्यं (जातिर्वा) कारणं भवति। तत्रैव यदि उच्यते पीतो घट: रक्तो घट: तदा विशेषस्य घटस्य बोधो जायते। अयं सामान्यविशेषभाव: एकस्मिन्नपि घटे वक्तुं शक्यते। घटो भवति घटत्वविशिष्टः । इदञ्च घटत्वं प्रत्येकं घटे वर्तत इति प्रत्येकं वस्तु सामान्यात्मकम्। जात्या युक्ता व्यक्तिर्विशेषात्मिका भवत्येवेति प्रत्येकं वस्तु सामान्यविशेषात्मकमिति कथनं साधु एव। इदं तथ्यं मनसि निधायैव प्रस्तुतसूत्रं व्याख्यायते- इन्द्रियं द्रव्यभावात्मकं चक्षुरादि, अर्थ: द्रव्यपर्यायात्मकं वस्तु तयो योगः संबंधः उचितदेशाधवस्थानरूपः तस्मिन् योगे सति यद् दर्शनम्-अनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः, सत्तामात्रविषयकं ज्ञानम् अर्थात् निराकारज्ञानं यत् जायते तद् दर्शनमित्युच्यते। अस्मिन् ज्ञाने विशेषस्योल्लेखो नैव भवति । एतादृशज्ञानादनन्तरमेकं तादृशं ज्ञानं समुत्पद्यते यत्र वस्तुनः सामान्यावबोधो भवति यस्यनिर्देश:कर्तुं न शक्यते तत् ज्ञानमवग्रह इति कथ्यते। सूत्रे यद् दर्शनानन्तरमित्युक्तं तस्येदं तात्पर्य यत् अत्र क्रमप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org