________________
द्वितीयो विभागः
ज्ञानावरणदर्शनावरणयोर्विलये जाते आत्मप्रकाशे स्फुरिते सत्येव निर्वृत्तीन्द्रियं लब्धसत्ताकं भवितुमर्हति। जाते लब्धसत्ताके निर्वृत्तीन्द्रिये तत्र विषयग्रहणोपकारिका या एका शक्तिरवतिष्ठते सा एव उपकरणेन्द्रियमितिप्रोच्यते। उपकरणेन्द्रिये संपन्ने एव उपयोगेन्द्रिय कार्यकारि भवति। यावत् कालपर्यन्तं विषयप्रकाशकशक्तिसम्पन्न उपकरणेन्द्रियं स्वकीयं रूपं नासादयिष्यति तावत् कथं प्रभवेत् उपयोगेन्द्रियम्। अनया रीत्या एषामिन्द्रियाणां कार्यकारित्वं सम्पद्यते इति न कश्चन विसंवादः। अत्रेदं रहस्यं वेदनीयं यत् ज्ञानावरणदर्शनावरणकर्मक्षयोपशम एव लब्धिरिति कथ्यते। लब्धेः सान्निध्यमुपेत्यैव आत्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति यत्नवान् भवति। एतेनेदं स्पष्टं भवति यत् लब्धीन्द्रियं कारणमस्ति इन्द्रियाणाम्। इन्द्रियाणि च कार्याणि । पूर्वजन्मनः कर्मवशात् यस्य यादृशं लब्धीन्द्रियं समुपलब्धं भवति, तस्य तादृशान्येव निर्वृत्त्यादीनि इन्द्रियाणि सम्पद्यन्ते इतिभावः। सम्प्रति व्यापकविषयस्य मनसो लक्षणं कर्तृकामो ग्रन्थकारः सूत्रमवतारयति
21. सर्वार्थग्राहि त्रैकालिकं मनः॥
सर्वे, न तु इन्द्रियवत् प्रतिनियता अर्था गृह्यन्ते येन तत्
सर्वार्थग्राहि त्रिकालविषयत्वात् त्रैकालिकं मनः । 1. त्रिकालविषयत्वाद् आलोचनात्मकत्वमस्य स्वभावापतितम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org