________________
द्वितीयो विभागः
3.
इन्द्रियजन्यं ज्ञानमेव प्रत्यक्षं मन्यते । यथा न्यायदर्शनेइन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमित्युक्तम् । किन्तु परिमितप्रदेशस्थमतिस्थूलपदार्थ मेव बोधयन्ति इन्द्रियाणि । इन्द्रियाणि भवन्ति परतन्त्राणि । जायतां नाम बोधस्तेभ्यः सम्यक् तथाप्यात्मनोऽपेक्षया तु व्यवहितमेवज्ञानं जायते तेभ्यः । एवञ्च परतन्त्रेन्द्रियजनितज्ञानापेक्षया स्वतन्त्रात्मनोजातं ज्ञानमेव प्रत्यक्षमिति वेदनीयम्। एवञ्च अवधिमन: पर्यायकेवलात्मकं ज्ञानत्रयमेव प्रत्यक्षपदेन ग्राह्यम् । मतिज्ञानं श्रुतज्ञानं च अत्र परोक्षप्रमाणान्तर्गतमेवेति बोध्यम् ।
अथ केवलज्ञानं लक्षयति
२५
तच्च चेतनस्य निरावरणस्वरूपं केवलम् । निखिलद्रव्यपर्यायसाक्षात्कारित्वात् केवलज्ञानं पूर्णं प्रत्यक्षम् । निरावरणत्वञ्च ज्ञानावरणविलयेन ।
वह प्रत्यक्ष ज्ञान आत्मा का निरावरणस्वरूप केवलज्ञान है । सब द्रव्यों और सब पर्यायों का साक्षात्कारी होने के कारण केवलज्ञान पूर्ण प्रत्यक्ष है। उसकी निरावरणता ज्ञानावरण के विलय से होती है।
न्या. प्र. - आत्मा च कर्मभिरावृत्तो भवति । कर्माणि च भवन्ति विविधानि । तत्र कानिचित् कर्माणि ज्ञानमावृण्वन्ति । एतादृशानि कर्माणि ज्ञानावरणीयकर्माणीति उच्यन्ते । सत्सु ज्ञानावरणीयकर्मसु आत्मनः स्वरूपं निरावरणं नैव भवति । यदा तप: साधनादिभिः समेषां कर्मणां ज्ञानावरणादीनां विलयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org