________________
भिक्षुन्यायकर्णिका भवति तदा विशुद्धेनात्मना निरावरणस्वरूपेण निखिलद्रव्याणां तत्पर्यायाणां च साक्षात्कारो जायते। इदं पूर्ण प्रत्यक्षमेव केवलज्ञानमित्युच्यते। ज्ञानावरणानां समेषां विलयो जायतेऽत्रेति समस्तद्रव्यपर्यायाणामवबोधो जायतेऽत्र। समस्तद्रव्यपर्यायविषयत्वात् ज्ञानमिदं पूर्ण प्रत्यक्षमिति प्रोच्यते तत्त्वविद्भिः। प्रत्यक्षप्रमाणस्य(ज्ञानस्य) अपरावपि द्वौ भेदौ स्त: अवधिमन:पर्यायौ च। तावनुलक्षयन् सूत्रे निबध्नाति
अपूर्णमवधिमनःपर्यायौ। आवरणसद्भावाद् एतौ अपूर्णप्रत्यक्षं भवतः । अवधिज्ञान और मनःपर्यायज्ञान अपूर्ण प्रत्यक्ष हैं।
इनकी अपूर्ण प्रत्यक्षता का कारण है- आवरण का सद्भाव। न्या. प्र.- अवधिज्ञानं मन:पर्यायज्ञानञ्च अपूर्णमेव भवति। अनयोरपूर्णप्रत्यक्षतायाः कारणमस्ति आवरणसद्भावः। आत्मनः उपरि यत् कर्मण आवरणं भवति तस्य सर्वथा विलये केवलज्ञानं भवति। तस्यावरणविलयस्य तारतम्येआवरणक्षयोपशमविशेषे च तन्निमित्तकमवधिज्ञानं मनःपर्याय ज्ञानं च भवति । इदमपि ज्ञानद्वयमिन्द्रियानपेक्षमेवभवतीति मुख्यमेव ज्ञानद्वयमिदम् । तत्रावधिज्ञानस्य विषयोभवति रूपि द्रव्यम्। मनसो द्रव्यरूपस्य चिन्तनानुगुणाः ये परिणामभेदा भवन्ति तद्विषयं ज्ञानं मनःपर्यायः। अनयोर्मध्येऽवधिज्ञानं प्रस्तौति साम्प्रतम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org