________________
१७२
भिक्षुन्यायकर्णिका तात्पर्यमिदं यत् प्रयोजनवशात् वस्तुनः कश्चिद् धर्मो विवक्ष्यते। विवक्षितश्च धर्मो वाग्विषयो भवति । वाणीद्वारा भवति तस्य प्रकाशनम् । कश्चिच्च धर्मो वस्तुनि सन्नपि प्रयोजनाभावान्न विवक्ष्यते, तदा नासौ याति वाग् विषयतामिति अवाच्य एव सः। यथा-यदा धर्मिणो नित्यत्वस्य विवक्षा भवति तदा तत्र वर्तमानावपि उत्पादव्ययौ वस्तुनोऽनित्यत्वा-भिव्यञ्जको नोपादीयेते । यदा च भवति विवक्षा अनित्यत्वस्य तदा तत्र सदपि ध्रौव्यं न विवक्ष्यते। अनेन प्रकारेण सहावस्थिताना-मप्येषां धर्माणां कदाचित् ग्रहणेन कदाचिच्चाग्रहणेन एकोऽपि धर्मी भवति नित्योऽनित्यश्च।
ये पदार्थाः सादृश्यवशात् सदृशाः समानास्तेऽनुवृत्ताकारेण सामान्यपदवाच्या भवन्ति। ते एव व्यावर्तकधर्ममवलम्ब्य व्यावृत्ताकारेण विशेषपदभाजो भवन्ति। एवमेव प्रत्येकं वस्तु स्वरूपेण सत् पररूपेण चासत् भवति । यदा वस्तुनः एकैकधर्मो विवक्ष्यते तदा वस्तु वाच्यं भवति। युगपदनेकधर्मापेक्षया चावाच्यं भवति। लोकेऽपि दृश्यते अपेक्षाबुद्ध्या भवन्ति कार्याणि । यथा एकस्मिन्नपि जने अपेक्षाभेदात् पितृत्वभ्रातृत्व पुत्रत्वमातुलत्वभागिनेयत्वादयः व्यवहाराः। पुत्र प्रति पिता सन्नपि स्वपितरं प्रति पुत्र एवैको जनः । एवं सापेक्षवादमादाय सर्वे व्यवहाराः साधूपपद्यन्ते। प्रमाणं सर्वदर्शनानुमतमेकं तत्त्वम् । न्यायशास्त्रस्य चतुर्यु अङ्गेषु प्रमाणं प्राथम्यमुपगतम् । गौतमीयन्यायाभिमतेषु षोडशपदार्थेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org