________________
तृतीयो विभागः
६७
8. साधनात् साध्यज्ञानमनुमानम्।
साधन के द्वारा साध्य का ज्ञान करने को अनुमान कहते हैं। न्या. प्र.- येन किमपि वस्तु साध्यते तत् साधनम् । यत् किमपि साध्यते तत् साध्यमिति कथ्यते। साधनं साध्यं गमयति-बोधयति। साधनस्य नामान्तरं हेतुः लिङ्गं चास्ति। साधनं व्याप्यं भवति साध्यञ्च व्यापकं भवति। व्याप्यस्य स्थलमल्पं भवति, व्यापकस्य स्थलञ्चाधिकं भवति । धूमाग्न्योः स्थले इदं द्रष्टं शक्यते। धूमोऽल्पदेशवृत्तिः, अग्निश्चाधिकदेशवृत्तिरस्ति इति विदितमेव। धूमाभावस्थले तप्तायोगोलके अग्नेः सत्वमेव तथ्यमिदं सत्यापयति। प्रत्यक्षवत् अनुमानमप्येकं प्रमाणमस्ति। प्रमाणं प्रमाकरणं भवति । प्रमा च यथार्थज्ञानस्वरूपाऽस्ति। यस्य वस्तुनो ज्ञानं प्रत्यक्षप्रमाणतो न भवति तदीयं ज्ञानमनुमानेन क्रियते। अनुमानात् यद् ज्ञानं भवति तदनुमितिरित्युच्यते। अतएवोक्तम् अनुमितिकरणमनुमानम्। इदमनुमानं साध्यसाधनयोरन्वयव्यतिरेकनिर्णयोपरि आधृतं भवति । अन्वयव्यतिरेकनिर्णय एव व्याप्त्यपरपर्यायस्तर्कः। साध्येन सह साधनस्यान्वयव्यतिरेकनिर्णये जाते एव साधनम्, अविनाभावी हेतुः सद्हेतुः वेति वक्तुं शक्यते । सद्हेतुरेव व्याप्तिबलेन तर्कबलेन वा स्वसाध्यस्य गमकं भवति। यथा साध्ये अग्नौ सत्येव धूमस्य भावोऽस्तित्वं भवति। अग्न्यभावे तु धूमस्य सत्त्वं भवितुं कदापि नाहतीति अन्वयव्यतिरेकबलात् धूमो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org