________________
६६
1.
भिक्षुन्यायकर्णिका
व्यतिरेकव्याप्तिः । अन्वयव्याप्तौ साधनं धूमो व्याप्यो भवति, साध्यो वह्निश्च व्यापको भवति किन्तु व्यतिरेकव्याप्तौ तु साध्याभावो व्याप्यो भवति, साधनाभावश्च व्यापको भवति । अयंभाव :- उपर्युक्तयोरुभयोर्व्याप्तयोरिदमन्तरमस्ति यत् अन्वयव्याप्तौ हेतुर्व्याप्यो भवति साध्यञ्च व्यापकं भवति, किन्तु अन्वयव्याप्तौ यद्व्याप्यं भवति तदभावो व्यतिरेकव्याप्तौ व्यापको भवति । तथा अन्वयव्याप्तौ यद् व्यापकं भवति तदभावो व्यतिरेक व्याप्तौ व्याप्यो भवति । दृश्यते चापि अन्वयव्यासौ व्याप्यस्य धूमस्याभावः, व्यतिरेकव्याप्तौ व्यापकतामु पैति । यथा यत्र २ अग्न्यभावस्तत्र २ धूमाभाव इति । एवमेवान्वयव्याप्तौ व्यापकस्याग्नेर भावो व्यतिरेकव्याप्तौ व्याप्यतामुपैति । अत उच्यते यत्र २ अग्न्यभावस्तत्र तत्र धूमाभाव इति । अग्न्यभावे धूमस्यास्तित्वं भवितुमर्हत्येव नेति व्यतिरेकव्याप्त्या व्यक्तीकृतम् ।
अयमत्रसारः अग्नौ सत्येव धूमो भवति, अग्न्यभावे न भवति इत्याकारकं ज्ञानं तर्क इत्युच्यते । अस्य तर्कस्य विषयः अग्निधूमयोरविनाभावोऽस्ति । अविनाभावी हेतुरेव साध्यसाधने क्षम इति न्यायशस्त्रीयसरणिः । अयं तर्क एव व्याप्तिपदेनाप्यभिधीयत इति ज्ञेयम् ।
परोक्षप्रमाणे क्रमशः प्राप्तं मतिज्ञानान्यतममनुमानं व्याख्यातुकामः सूत्रमवतारयति
अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते
तदभावोऽन्यथा व्याप्यो व्यापकः साधनात्यः । श्लोक वार्तिक 122
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org