________________
तृतीयो विभागः
६५
न्या. प्र.- अन्वयस्य व्यतिरेकस्य च निर्णय एव तर्कः। कोऽयमन्वयः, कश्च व्यतिरेक इति जिज्ञासायामिदं बोध्यं यत्... तत्सत्वे तत्सत्वम् अन्वयः; तदभावे तदभावो व्यतिरेकः। यथा— धूमसत्वे अग्निसत्वमन्वयः। अग्न्यभावे धूमाभावो व्यतिरेकः॥ इदमत्र बोध्यं यत् व्याप्येन व्यापकं साध्यते (अनुमीयते)। येन किमपि वस्तु साध्यते तत् साधनमित्युच्यते । यच्च वस्तु साध्यते तत् साध्यं भवति । साधनं व्याप्यमल्पदेशवृत्ति भवति । साध्यञ्च व्यापकमधिकदेशवृत्ति भवति। प्रस्तुतप्रकरणे धूमो व्याप्य: अग्निश्च व्यापक इति स्थितिः । अत एवाल्पदेशवृत्तिना साधनेन धूमेन अधिकदेशवृत्तिरग्निः साध्यते। पर्वतादौ दृष्टि पथमायातेन धूमेन अदृश्योऽग्निः साध्यत एवेति एतादृशस्थलेऽन्वयव्यतिरेकनिर्णय कर्तव्य एव । एतादृशनिर्णय एव तर्कः। तर्कोऽयं भवत्युपयोगी अनुमाने। साधने धूमे सति साध्यस्य भाव एव। धूमे सति अग्निर्भवत्येव अन्यथा साध्यस्याग्नेापकता एव भज्येत । एवं साध्ये अग्नौ सत्येव धूमो भवति। अग्न्यभावे तु धूमस्यास्तित्वं नैव भवितुमर्हति । सारल्येनेदमेवतथ्यमेवं शक्यते वक्तुम् - यत्र यत्र धूमस्तत्र तत्राग्निः। यत्र अग्न्यभावस्तत्र धूमाभावः। इदमत्रावधेयं यत् - यत्र यत्र धूमस्तत्र तत्र अग्निरिति अन्वयव्याप्तिः। यत्र २ आन्यभावस्तत्र २ धूमाभाव इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org