________________
१७०
भिक्षुन्यायकर्णिका
प्रमाणस्य विषयो यद्वस्तु तद्वाच्यम् अवाच्यं च भवति । तत्र वाच्यावाच्ययोः किं स्वरूपमिति प्रतिपादयितुं सूत्रयति
9. वाग्गोचरं वाच्यम्।
जो वाणी का विषय बने उसे वाच्य कहा जाता है।
10. -वाचामविषयमवाच्यम्।
जो वाणी का विषय न बने, उसे अवाच्य कहा जाता है।
11. विवक्षाऽविवक्षातः संगतिः।
प्रयोजनवशात् कश्चिद् धर्मो विवक्ष्यते, कश्चिच्च सन्नपि प्रयोजनाभावान्न विवक्ष्यते, यथा-धर्मिणो नित्यत्वविवक्षायां सन्तावप्युत्पादव्ययौ नोपादीयेते, अनित्यत्वविवक्षायाञ्च सदपि ध्रौव्यं नार्म्यते। तत एव सहावस्थितानामप्येषां ग्रहणाग्रहणेन एकोऽपि धर्मी नित्योऽनित्यश्च । एवमनुवृत्ताकारेण सामान्यम्, व्यावृत्तरूपेण विशेषः, स्वरूपेण सत्, पररूपेण असत्, एकैकधर्मापेक्षया वाच्यम्, युगपद् अनेक धर्मापेक्षया च अवाच्यम्। दृश्यन्ते च एकस्मिन्नपि जने अपेक्षाभेदात् पितृत्वभ्रातृत्वपुत्रत्वमातुलत्वभागिनेयत्वादयः पर्यायाः। एक ही वस्तु में अनेक विरोधी धर्मों की संगति विवक्षा और अविवक्षा के आधार पर घटित होती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org