SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ षष्ठो विभागः १६९ पशुत्वजातिमवलम्ब्य गोमहिषादयः सर्वे पशवः समाना एव। एवं जातिरूपेण अभिन्नोष्वपि वृक्षेषु यदा वटोऽयम्, पिप्पलोऽयम् निम्बोऽयम् इत्यादिविभागः क्रियते अथवा पशुषु मध्ये गौरयम्, महिषोऽयं वेति विभागः क्रियते चेत् एतादृशस्य भेदस्य निमित्तं विशेष एव। सामान्यं जातिर्वा अभेदनिमित्तं भवति चेत् जात्यवच्छिन्नव्यक्तिषु या भेदप्रतीतिर्भवति तस्या निमित्तं तु विशेष एव। ___ स च विशेषः कतिविध इति जिज्ञासायां तस्य द्वैविध्यं प्रतिपादयितुं सूत्रमवतारयति गुणपर्यायभेदाद् द्विरूपः। गुणः -सहभावी धर्मः, यथा-आत्मनि विज्ञानम्। पर्याय:-क्रमभावी, यथा-तत्रैव सुख-दुःखादि । विशेष के दो भेद हैं : 1. गुण, 2. पर्याय गुण- सहभावी धर्म, गुण कहलाता है, जैसे-आत्मा में ज्ञान। ___ पर्याय- क्रमभावी धर्म, पर्याय कहलाता है, जैसेआत्मा में सुख, दु:ख आदि। न्या. प्र.- विशेषो द्विविधो भवति गुणः पर्यायश्च। तत्र गुणः सहभावी धर्मः यथा आत्मनि ज्ञानं सहभावी धर्मोऽस्ति। तत्रैवात्मनि क्रमशः कदाचित् सुखं कदाचिच्च दुःखं जायते। क्रमभाविन इमे सुखदुःखादयः सन्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy