________________
१६८
7.
भिक्षुन्यायकर्णिका
ऊर्ध्व तासामान्ये तु एकस्यामेव व्यक्तौ पूर्वापरेषु क्रमभाविपर्यायेषु अनुयायिनी एकता प्रतीयते । यथा बाल्ययौवनाद्यनुयायि पुरुषत्वम् ।
तिर्यक् सामान्ये द्रव्ययोः द्रव्याणां वा जातिगता एकता प्रतीयते । उपर्युक्तं चैतत् गोघटादिषु ।
ऊर्ध्वतासामान्ये च एकस्यैव द्रव्यस्य पर्यायगता एकता प्रतीयते । बालयौवनादिपर्यायेषु भिन्नेष्वपि सत्सु पुरुषोऽयं देवदत्तो वा अयमित्यादि रीत्या एकता प्रतीतिर्भवत्येव । सामान्यं तद्भेदौ च प्रतिपाद्य सम्प्रति विशेषं प्रतिपादयति
भेदप्रतीतेर्निमित्तं विशेषः ।
असौ जातिरूपेणाऽभिन्नेष्वपि वृक्षेषु वटोऽयम्, पिप्पलोऽयम्, निम्बोऽयमित्यादि वैसदृशस्य निमित्तभूतो भवति । भेदप्रतीति के निमित्त को विशेष कहा जाता है।
यह जाति रूप से अभिन्न वस्तुओं में भिन्नता की प्रतीति का निमित्त है, जैसे- वृक्षों में अमुक बरगद है, अमुक पीपल है और अमुक नीम है, इत्यादि ।
न्या. प्र. - भेदस्य या प्रतीतिर्भवति लोके अयं निम्बः अयं कदम्बः, अथवा अयं गौः अयं महिषः इत्येवं रूपेण तस्याः प्रतीतेर्निमित्तं विशेष एव ।
अयं भावः वृक्षत्वजातिमवलम्ब्य निम्बकदम्बादयः सर्वे वृक्षा: समानाः सन्ति वृक्षत्वजातेः सर्वत्र वर्तमानत्वात् । एवमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org