________________
तृतीयो विभागः
६३
कदाचित् स्मरणरूपेऽपि तस्याः स्मरणं स्यात् । न च भवतीत्थमिति प्रत्यभिज्ञानमेकमेवानुभवात्मकं ज्ञानम् अथवा यथा किञ्चित् वस्तु उष्णं भवति, किञ्चित् शीतं भवति किञ्चिच्च अनुष्णाशीतं भवति । उष्णशीताभ्यां विलक्षणो विजातीयोऽयं स्पर्शः । अनेनैव प्रकारेण प्रत्यभिज्ञा न स्मृतिरूपा, न वा अनुभवरूपा, अपितु स्मृत्यनुभवाभ्यां भिन्नो ज्ञानस्य तृतीयोऽयं प्रकारः । न्यायदर्शने यत्र स्मृतिरनुभवश्चेति ज्ञानद्वयं स्वीकृतमास्ते तत्रानेन प्रकारेण ज्ञानस्य त्रैविध्यमिति वक्तुं शक्यते । तत्र संस्काराजन्यं ज्ञानमनुभवः । संस्कारमात्रजन्यं ज्ञानं स्मृति: संस्कारेन्द्रियो भयजन्यं ज्ञानं प्रत्यभिज्ञेतिवक्तुं शक्यमेव ।
आचार्यो हेमचन्द्रस्तु प्रत्यभिज्ञाविषये एवं कथयति यत् प्रत्यभिज्ञायां ज्ञानद्वयं भवतीति कथनं न समीचीनं यतोहि अत्र तु पूर्वापराकारसम्मिलितमेकमेव द्रव्यं भासते । न चेदं द्रव्यं स्मरणस्य विषय इति वक्तुं शक्यते स्मरणस्य अनुभूत विषयत्वात् । न चेदमेकं द्रव्यं केवलं स्मृतेर्विषयः । एवमेवेदं द्रव्यं न प्रत्यक्षस्य विषयः प्रत्यक्षस्य वर्तमानविवर्तमात्र (पर्यायमात्र) ग्राहित्वात् । प्रत्यभिज्ञाविषये तु न केवलं वर्तमानकालविषयत्वमपितु अंत्र भूतकालविषयत्वमप्यस्ति । दर्शनस्मरणाभ्याम् अन्यत् अत्र ज्ञानं नास्तीति कथनमप्ययुक्तमेव यतो हि अत्र दर्शनस्मरणोत्तरं ज्ञानान्तरस्यानुभूतिर्भवत्येव । न चानुभूतेरपलापो युक्तः । तस्मात् अत्र एवं सिद्धयति यत् दर्शनस्मरणाभ्यां भिन्नमुभयज्ञानविलक्षणमेकमेवानुभवात्मकं ज्ञानं प्रत्यभिज्ञेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org