________________
६२
भिक्षुन्यायकर्णिका तयोरेकात्मिकैवानुभूतिरिति संकलनात्मकं ज्ञानमिति वक्तुं शक्यत एव। यत्र च "गोसदृशो गवयः" इत्युच्यते तत्रापि गवयस्य प्रत्यक्षं तथा सादृश्यप्रतियोगितया गोः स्मरणञ्च भवति। इदमपि ज्ञानं प्रत्यक्षात्मकं स्मरणात्मकञ्चेति ज्ञानद्वयघटितमेव। 'गोविलक्षणो महिषः' इत्युक्ते सति गोप्रतियोगिकविलक्षणताया अनुयोगी महिषो भवतीति अत्रापि महिषस्य प्रत्यक्षात्मकं ज्ञानं तथा तन्निष्ठं वैलक्षण्यज्ञानन्तु पूर्वतो निर्धारितं स्मरणात्मकं चेति ज्ञानद्वयस्य संकलनमत्रापि वर्तत एव। इदमत्र बोध्यं यत् उपमानं द्विधा भवति साधर्म्यतो वैधयंतश्च। साधर्म्यतः चन्द्रवन्मुखमित्यादौ प्रसिद्धम्। वैधर्म्यतस्तु प्रत्यभिज्ञायाः प्रस्तुते उदाहरणे दृश्यत एव। इदमस्मात् दूरं नेदीयो वेति यत्रोच्यते तत्र इदमः प्रयोगद्वयमस्तिएकन्तु प्रथमैकवचनान्तम्, द्वितीयञ्च तदीयं पञ्चम्यन्तम्। द्वाभ्यां पदाभ्यां स्थानद्वयस्य भेदप्रयुक्तं ज्ञानमपि द्वैविध्यमासादयतीति ज्ञानद्वयस्य संकलनात्मकमेवेदमपि ज्ञानमिति न संशयः।
प्रत्यभिज्ञाविषये प्रश्नोऽयं समुदेति यत् प्रत्यभिज्ञायाः उदयः इन्द्रियसंस्काराभ्यां भवति चेत् शुद्धानुभवरूपमिदं ज्ञानमिति कथं वक्तुं शक्येत? अस्योत्तरमिदं वेदितव्यं यत् प्रत्यभिज्ञा अनुभवरूपेणैव गृह्यते न तु स्मरणरूपेणापि । अतः सा शुद्धानुभवरूपैव। यदि तत्र स्मरणरूपतापि स्यात् तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org