________________
द्वितीयो विभागः
प्रथमविभागे प्रमाणस्य लक्षणम्, तस्य प्रामाण्यञ्च कथमित्येतत् सर्वं प्रतिपादितम् । इदानीं तस्य कति भेदा इति प्रतिपादयितुकामः सूत्रमवतारयति - तत् प्रत्यक्षं परोक्षञ्च। अक्षम्-इन्द्रियम्, अक्षो जीवो वा। अक्षं प्रति गतं प्रत्यक्षम्। अक्षेभ्योऽक्षाद् वा परतो वर्तते इति परोक्षम्। यथार्थत्वावच्छिन्ना यावन्तो ज्ञानप्रकारास्तावन्त एव प्रमाणस्य भेदाः। प्राधान्येन तद् द्विभेदम्।
प्रमाण के दो प्रकार हैं- प्रत्यक्ष और परोक्ष। 1. बाह्यर्थग्रहणापेक्षया ज्ञानस्य प्रत्यक्षता परोक्षता च, स्वरूपापेक्षया तु सर्वमपि
प्रत्यक्षमेव। 2. परशब्दसमानार्थकेन पर:शब्देन परोक्षमिति सेत्स्यति। 3. चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द,
तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः ।। अर्थापत्त्या प्रभाकृत् वदति च निखिलं मन्यते भट्ट एतत्, साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org