SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पञ्चमो विभागः १४९ भिक्षुद्वारा भिक्षणक्रिया सम्प्रति सम्पद्यत न वा सम्पद्येत स तु भिक्षु शब्दवाच्यो भविष्यत्येव। एवं भूतनयस्तु शब्दप्रतिपाद्यक्रियायां प्रवृत्तस्य जनस्य कृते एव केवलं तद् वाचकशब्दप्रयोगं वाञ्छति। तस्मात् एवंभूतनयः समभिरूढनयाद्भिन्न इति सिद्धं भवति। सम्प्रति नयानां वैशिष्ट्यं बोधयितुमुपक्रमते - 14. आद्याश्चत्वारोऽर्थप्रधानत्वादर्थनया:'। आदि के चार नय अर्थ-प्रधान होने के कारण अर्थनय कहलाते हैं। न्या. प्र.- द्रव्यार्थिकपर्यायार्थिकनययोर्मेलनेन सप्त नयाः सम्पद्यन्ते। तत्र सप्तसु नयेषु आद्याश्चत्वारः नैगमः संग्रहः व्यवहारः ऋजुसूत्रः इत्येते सन्ति । एषु चतुर्षु नयेषु प्राधान्येन अर्थनिरूपणं भवतीति इमे चत्वारोऽर्थनयाः इत्युच्यन्ते। 15. शेषाश्च शब्दनयाः। शेष तीन नय शब्द-प्रधान होने के कारण शब्द नय कहलाते हैं। न्या. प्र.- शेषाः अवशिष्टास्त्रयः "शब्दसमभिरूद्वैवंभूताः" इति त्रयो नयाः शब्दनयाः कथ्यन्ते। एषु त्रिषु नयेषु प्राधान्येन शब्दमवलम्ब्यैव विचारः क्रियते, तस्मादिमे त्रयः शब्दनयाः। 1. एषु चतुर्षु अर्थाश्रितो विचारो भवति । 2. एषु त्रिषु शब्दाश्रितों विचारो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy