________________
१५०
भिक्षुन्यायकर्णिका शब्दनये कालादिभेदेन ध्वनेः (शब्दस्य) अर्थः भिद्यते। एवञ्चात्र शब्दस्य प्राधान्यं स्पष्टमेव। समभिरूढ़नये तु पर्यायवाचकशब्देषु निर्वचनभेदेन अर्थभेदो भवति । यथा भिक्षणशीलो भिक्षुरन्यः, तपः आचरन् तपस्वी च भिन्नः। यद्यपि भिक्षुतपस्विशब्दौ पर्यायवाचकौ तथापि -निर्वचनभेदेनोभौ भिन्नार्थको सम्पन्नौ स्तः। एवं रीत्या अत्रापि शब्दमवलम्ब्यैव क्रियते विचार इति शब्दनयत्वमस्य सुस्थिरम्। एवंभूतनये तु क्रियायां परिणतेऽर्थे एव शब्दप्रयोगः। भिक्षण क्रियायां संलग्ने पुरुषे एव भिक्षुशब्दप्रयोगः। एवं तपसि संलग्रः पुरुष एव तपस्वी शब्देन व्यवहर्तुं शक्यत इति शब्दप्रयोगस्य वैशिष्ट्यं दृष्ट्वैव इमे त्रयः शब्दनयाः।
सम्प्रति नयानां विषयविभागं क्षेत्रं च विभजन सूत्रं करोति16. पूर्वः पूर्वो बहुविषय: कारणभूतः परः परोऽल्पविषयः
कार्यभूतश्च। क्रमशः पूर्ववर्ती नय बहुविषयवाला और कारणभूत तथा उत्तरवर्ती नय अल्पविषयवाला और कार्यभूत होता है। न्या. प्र.- एषु सप्तसु नयेषु पूर्वस्य पूर्वस्य नयस्य विषयो भूयान् भवति तथा पूर्वः पूर्वो नयः परस्य नयस्य कारणञ्च भवति । पर:परो नयोऽल्पविषयकः कार्यभूतश्चास्ति। अस्य स्पष्टीकरणमेवम्- नैगमनयः संकल्पग्राही अस्ति, अत: संकल्पमात्रे समागतं सद्वस्तु यथा गृह्णाति अयं तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org