________________
द्वितीयो विभागः
प्राप्यकारीणि सन्ति । न च मनश्चक्षुर्वा वस्तु प्राप्य प्रकाशकं भवति। अत एव नयनमनसो व्यञ्जनावग्रहो नैव भवति । यद्यपि दृश्यवस्तुनः प्रतिबिम्बं पतति चक्षुषि तथापि तेन वस्तुना चक्षुषः साक्षात् संबंधो नैव भवतीति नात्र कश्चन दोषः। ननु-अनध्यवसायो निर्णायको न भवति। तत्र वस्तुन आभासमात्रं भवति। सैव स्थितिरवग्रहस्यापि वर्तते। अत्रापिवस्तुनो निर्णयो नैव भवतीति को भेदोऽनयोरिति चेच्छ्रयताम्-अवग्रहस्तु ईहावायधारणाक्रमेण निर्णायी भवत्येव । न चैषा स्थितिरनध्यवसाये भवति। अनध्यवसायो निर्णयोन्मुखो नैव भवतीति न प्रमाणत्वमस्य कथञ्चन। अवग्रहेण गृहीतेऽर्थे संशयो जायते । संशयश्चैकस्मिन् धर्मिणि विरुद्धनानाधर्मावगाहि ज्ञानं भवति। यथा कस्मिंश्चित् शब्देश्रुतिपथमुपगते सति संदेहो भवति यत् अयं शब्दः शाङ्क: शाङ्गो वा। तत्रामुकेनभाव्यमिति वितर्कः क्रियते। एवं प्रकारिकामीहां लक्षयन् सूत्रं करोति
11. अमुकेन भाव्यमिति प्रत्यय ईहा।
अमुकस्तदितरो वा इति संशयादूर्ध्वः अन्वयव्यतिरेकपूर्वकम् 'अमुकेन भाव्यम्' इति प्रत्यय ईहा, यथा-शब्देन भाव्यम्। 'अमुक होना चाहिए' इस प्रकार के प्रत्यय को ईहा कहते हैं।
__ यह पदार्थ अमुक है या दूसरा? यह संशय है। इसके पश्चात् अन्वय-व्यतिरेक (विधि-निषेध) पूर्वक 'अमुक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org