________________
पञ्चमो विभाग:
१४३
यः खलु पर्यायस्तस्य द्वौ भेदौ सहभावीपर्यायः, क्रमभावी पर्यायश्च। सहभावी पर्यायः ज्ञानादिकम् । क्रमभावी च सुखदुःखादिरूपः। व्यवहारनयो द्रव्यार्थिकनयोऽस्ति अत: द्रव्यस्यान्तिमं भेदं परमाणुं यावदयं गच्छति । अर्थपर्यायस्तु नास्यविषयः । यद्यपि अपर संग्रह स्य विषयः अवान्तर सामान्यम्, तथा व्यवहारनयस्यापि अवान्तर एव विषयः अत: उभयो: साम्यमिति कथञ्चित् वक्तुंशक्यते तथापि अपरसंग्रहः अभेदांशप्रधानो भवति, व्यवहारनयश्च भेदांशप्रधानः। अपर संग्रहो भेदेऽपि अभेदं पश्यति, व्यवहारनयश्च अभेदेऽपि भेदं पश्यतीति उभयो विशेषः। अभेदांशप्राधान्यं तु एवं वक्तुं शक्यते यत् द्रव्याणि परस्परं भिन्नानि सन्ति किन्तु भिन्नेष्वपि द्रव्येषु द्रव्यत्वमेकमिति भेदेऽपि अभेददर्शनम्। व्यवहारनयश्च सत्वाविशेषात् अभेदेऽपि द्रव्ये धर्माधर्मादीन् भेदान् पश्यतीति सूक्ष्मदृष्ट्यावधारणीयम्। सम्प्रति पर्यायार्थिकनयं विभजते सूत्रद्वारा - ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्चेति चतुर्धा पर्यायार्थिकः। पर्यायार्थिक नय के चार प्रकार हैं:1. ऋजुसूत्र, 2. शब्द, 3. समभिरूढ़, 4. एवंभूत। न्या. प्र.- पर्यायार्थिकनयस्य चत्वारो भेदाः भवन्ति । ते च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org